SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ निर्युक्तिः [७८२-७८३] वि० भा० गाथा [२५२०-२५२१] मूलं [- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः अध्ययनं [-] भाष्यं [ १४४], साधूनां कर्त्तव्यं येषां तु मतेन यावज्जीवादिकं परिमार्ण प्रत्याख्यानस्य तेषामेवत्प्रत्याख्यानं दुष्टम् - अशोभनं यतस्तत्र 'आससा होइ'चि अनुस्वारलोपादाशंसा भवति, आशंसा च दुष्टपरिणामः, ततस्तदूषितं न शोभनमिति, उक्तं च- “आसंसा आ पत्ते सेविस्सामित्ति दूसियं तीए । जेण सुर्यमिवि भणियं परिणामातो असद्धं तु ॥ १ ॥ रागेण व दोसेण व परिणामेणं न दूसियं जं तु । तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयवं ॥ २ ॥ (वि. २५२० - १ ) आशंसादोषदुष्टतायां चायं प्रयोगःयावज्जीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टं परिमाणपरिच्छिन्नावधित्वात् श्वः सूर्योदयात्परतः पारविष्यामीत्युपवासप्रत्याख्यानवत्, तस्मादपरिमाणमेव प्रत्याख्यानं श्रेयः आशंसारहितत्वात् तीरितादिविशुद्धोपवासादिवदिति ॥ एवं पण्णवितो विंझेण भणितो-न होइ एवं जं तुमे भणियं एत्यंतरे जं तस्स अवसेसं नवमपुवस्स तं सम्मतं, ततो सो अभिनि| वेसेण दुब्बलिया समित्तसगासं चैव गंतूण भणइ-अन्नहा आयरिएहिं भणियं, अन्नहा तुमं पण्णवेसि, उपन्यस्तश्चानेन तत्पु| रतः स्वपक्षः, तत्राचार्यः प्राह - ननु यदुक्तं भवता यावज्जीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टमित्यादि, तदयुक्तं यतः| कृतप्रत्याख्यानानां साधूनां न मृता वयं सेविष्याम इत्येवंरूपा आशंसा, किन्तु मृतानां देवभवे मा भूद् व्रतभंग इति कालावधिकरणम्, अपरिमाणपक्षे तु भूयांसो दोषाः, तथाहि--अपरिमाणमिति कोऽर्थः १, किं यावच्छक्तिरुताना गताद्धा आहोस्विदपरिच्छेदः १ तत्र यदि यावच्छतिरस्ति, एवं सति शक्तिमितिकालावध्यभ्युपगमात् अस्मन्मतानुवाद एव, आशंसादोषोऽपि च काल्पनिकस्तुल्यः, अन्यच्च यथाऽस्मत्पक्षे मृतस्य न व्रतभङ्गदोषो यावज्जीवमित्यवधेः परिपूर्णत्वात् तथा ( त्वन्मते ) जीवतोऽपि भोगान् भुञ्जानस्य न स्यात्, एतावत्येव मम शक्तिरिति प्रत्याख्यानस्य पूर्णत्वात्, तथैव For Pevato & Personal Use Only ~ 256 ~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy