SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ३ अध्ययनं [-], निर्युक्ति: [ ७१८-७१९], वि० भा० गाथा [-], भाष्यं [ १३७...], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः गाथार्थः ॥ एवं तावत् ज्ञानोपसम्पद्विधिः उक्तः, दर्शनोपसंपद्विधिरप्यनेनैवोको द्रष्टव्यः, तुल्ययोगक्षेमत्वात्, तथाहि-दर्शनप्रभावकशास्त्र परिज्ञानार्थमेव दर्शनोपसम्पदिति ॥ सम्प्रति चारित्रोपसम्पद्विधिमभिधित्सुराह दुविहाय वरितमि बेयावचे तहेव खमणे य। निअगच्छा अन्नम्मि उ सीअणदोसाइणा होइ ॥ ७१८ ॥ द्विविधा चारित्रे - चारित्रविषय उपसम्पत, तद्यथा-वैयावृत्त्यविषया क्षपणविधिविषया च, किमत्रोपसम्पदा कार्य १ स्वगच्छ एव तत् कस्मान्न क्रियते ?, उच्यते, निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना भवति, आदिशब्दादन्यभावादिपरिग्रहः ॥ इन्तरिआइ विभासा बेयावचे तहेव खमणे अ । अविगिट्ठविगिम्मी गणिणा गच्छस्स पुच्छाए ॥ ७१९ ॥ इह चारित्रार्थमाचार्यस्य कश्चिद् वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवति, आचार्य - स्यापि वैयावृत्त्यकरोऽस्ति वा न वा, तत्रायं विधिः-यदि नास्ति ततोऽसाविष्यत एव अधास्ति स द्विविधः - इत्वरो वा स्वाद्यावत्कथिको या, आगन्तुकोऽप्येवं द्विभेद एव तत्र यदि द्वावपि यावत्कथिको ततो यो लब्धिमान् स कार्यते, इतरस्तूपाध्यायादिभ्यो दीयते, अथ द्वावपि लब्धियुक्तौ ततो वास्तव्य एव कार्यते, इतरस्तूपाध्यायादिभ्यो दीयते इति, अथ नेच्छति ततो वास्तव्य एव प्रीतिपुरस्सरं तेभ्यो दीयते, आगन्तुकस्तु कार्यते इति, अथ प्राक्तनोऽप्युपाध्यायादिम्यो नेच्छति तत आगन्तुको विसर्च्छत एव, अथ वास्तव्यो यावत्कथिक इतरस्त्वितर इत्यत्राप्येवमेव भेदाः यावदागन्तुको विसृज्यते, नानात्वं तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या विश्राम्यते, यदि सर्वथा नेच्छति ततो विसृज्यते For Pivato & Personal Use Only ~130~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy