SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २ अध्ययनं [-], निर्युक्तिः [ १७४- १७८] वि० भा० गाथा [-] भाष्यं [३] मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः Jan Education Inter अत्र प्रथमगाथया अष्टों कारणान्युक्तानि द्वितीयगाथवा नव तृतीयगाथया त्रीणि, तत्र प्रथम गाथाब्याख्या - अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः - तीर्थकराः १ अपगतसकलकर्माशाः परमसुखिन एकान्तकृतकृत्याः सिद्धाः २ प्रवचनं - द्वादशाङ्गं तदुपयोगानन्यत्वात् सङ्घो वा प्रवचनं ३ गृणन्ति यथावस्थितं शास्त्रार्थमिति गुरवोधर्मोपदेशादिदातारः ४ स्थविरा जातिश्रुतपर्यायभेदभिन्नाः, तत्र जातिस्थविरा: षष्टिवर्षप्रमाणाः श्रुतस्थविराः समवायधराः पर्यायस्थविरा विंशतिवर्षत्रतपर्यायाः ५ बहु श्रुतं येषां ते बहुश्रुताः, तच्च बहुश्रुतमापेक्षिकं प्रतिपत्तव्यं श्रुतं च त्रिधासूत्रतोऽर्थत उभयतश्च तत्र सूत्रधरेभ्योऽर्थधराः प्रधानास्तेभ्योऽप्युभयधराः प्रधाना इति ६ तथा विचित्रमनशनादिभेदभिन्नं तपो विद्यते येषां ते तपस्विनः - सामान्यसाधवः, अर्हन्तश्च सिद्धाश्च प्रवचनं च गुरवश्च स्थविराश्च बहुश्रुताश्च तपस्विनश्च अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनः सूत्रे 'बहुरमुए' इत्यत्र एकारः प्राकृतत्वादलाक्षणिकस्तेषु, 'एसिं'ति प्राकृतत्वात् सप्तम्यर्थे षष्ठी, भवति च प्राकृतत्वाद्विभक्तिव्यत्ययो, यदाह पाणिनिः स्वप्राकृतलक्षणे- “व्यत्ययो ऽप्यासा" मिति, एतेषु सप्तसु स्थानेषु वत्सलभावो वत्सलता - अनुरागः यथावस्थितगुणोत्कीर्त्तनं तदनुरूपोपचारलक्षणः तीर्थकर नामकर्म्मबन्धकारणमिति योगः, तथा अभीक्ष्णम्-अनवरतं ज्ञानोपयोगो-ज्ञाने व्याप्रियमाणता, इदमष्टमं कारणं । द्वितीयगाथा व्याख्या- 'दंसणे'त्यादि, दर्शनं सम्यक्त्वं विनयो- ज्ञानादिविनयः, स च दशवैकालिकनिर्युकेरवसेयो वक्ष्यमाणो वा, दर्शनं च विनयश्च दर्शनविनयं समाहारो द्वन्द्वः तस्मिन् ९-१० आवश्यक - अवश्यकर्त्तव्यं प्रतिक्रमणादि तस्मिन् ११ शीखानि च शतानि च शीतं अत्रापि समाहारद्वन्द्रः तस्मिन् वत्र व्रतानि मूलगुणाः शीलानि - उत्तर For Pavoce & Personal Use Oy ~52~ janelibrary.org
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy