SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-4] "आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २ अध्ययनं [-] निर्युक्तिः [४५९-४६०], वि०भा० गाथा [-], भाष्यं [ ९८-९९ ], मूलं [- /गाथा ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः भवनपतिव्यन्तरज्योतिष्कवैमानिका देवा यथा चन्द्रप्रभां शिविकामुत्पाटयन्ति, उत्पाव्य च शशानेन्द्रवर्णाः शेषा देवा यथायोगं परिवहन्ति, शक्रेशानेन्द्रौ तु चामराभ्यां वीजयतः ॥ एतदेवाह - पुद्धिं क्खिता माणुसेहिं सा हट्ठरोमकृवेहिं । पच्छा वहंति सीयं असुरिंदसुरिंदनागिंदा ॥ ९८ ॥ भा० ॥ पूर्व - प्रथममुत्क्षिप्ता — उत्पाटिता मानुषैः सा शिबिका, किंविशिष्टैरित्याह-हृष्टानि रोमकूपानि येषां ते तथा तैः, पश्चाद्वहन्ति शिविकामसुरेन्द्र सुरेन्द्रनागेन्द्राः, असुरेन्द्राः - चमरादयः सुरेन्द्रा ज्योतिरिन्द्रादयः नागेन्द्रौ - धरणभूतानन्दौ ॥ असुरेन्द्रादिस्वरूपव्यावर्णनार्थमाह चलचवलभूसणधरा सच्छंदविउद्दियाभरणधारी । देविंददाणविंदा वहति सीयं जिदिस्स ॥ ९९ ॥ भा० ॥ चलाश्च ते चपलभूषणधराश्चेति विशेषणसमासः, तत्र चला गमनक्रियायोगात् चपलभूषणधरा हारादिचपलभूषणयोगात्, तथा स्वच्छन्देन - स्वाभिप्रायेण विकुर्वितानि देवशक्त्या कृतानि आभरणानि - कुण्डलादीनि धारयन्ती| त्येवंशीलाः स्वच्छंद विकुर्विताभरणधारिणः, अथवा चलचपलभूषणधरा इत्युक्तं तानि च भूषणानि किं ते परनिर्मितानि धारयन्ति उत स्वनिर्मितानीति संशयसम्भवे व्यवच्छेदार्थमाह-स्वच्छंद विकुर्विमाभरणधारिणः क एते इत्याह-देवेन्द्रदानवेन्द्राः, किं ? - वहन्ति शिविकां जिनेन्द्रस्य ॥ एवं भगवति शिविकारूढे गन्तुं प्रवृत्ते तत्प्रथमतया सर्वात्मना रत्न| मयान्यमून्यष्टौ मङ्गलकानि पुरतः क्रमेण सम्प्रस्थितानि, तद्यथा - स्वस्तिकः श्रीवत्सः नन्दावर्त्तः वर्द्धमानकं भद्रासनं Jan Education International Far Pavoce & Personal Use Only ~ 258 ~ wsanelibrary.org
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy