________________
आगम
(४०)
[भाग-4] “आवश्यक- मूलसूत्रअध्ययनं H, नियुक्ति: [४५९-४६०], वि०भा०गाथा -], भाष्यं [९७], मूलं F /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्तिः |
प्रत
गमनं
दीप अनुक्रम
सपोद्धात- अध्यवसानम्-अन्तःकरणसव्यपेक्षं विज्ञानं तेम सुन्दरेण-शोभनेन जिनो-भगवान् वर्द्धमानस्वामी, तथा लेश्याभि-IA अलंकारः नियुको विशुमानो, मनोचाकायपूर्विकाः कृष्णादिद्रव्यसम्बन्धजनिताः खस्वात्मपरिणामा लेश्याः, कंच-"कृष्णादि- लेश्यानि. श्रीवीर- द्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव सत्रायं, लेश्याशब्दः प्रवर्तते ॥९॥" ताभिर्विशुद्धयमान आरो- क्रमणाय चरिते हत्युत्तमा शिविकाम् ॥
सिंहासणे निसन्नो सक्कीसाणा य दोहिं पासेहिं । वीयंति चामरेहिं मणिकणगविचित्तदंडेहिं ॥९७ ॥ मा०॥ ॥२६॥
तत्र भगवान सिंहासने निषण्णः, स च पूर्वाभिमुखः, ततो भगवतो दक्षिणपाधै कुलमहत्तरिका हंसलक्षणं पटसाटकमादाय भद्रासने निषण्णा, अम्बधात्री भगवतो वामपार्श्वे उपकरणमादाय भद्रासने उपविष्टा, भगवतः पृष्ठे 'एका वरतरुणी कृतङ्गारचारवेषा धवलमातपत्रं धरन्ती समवतिष्ठते, उत्तरपूर्वस्यां दिशि पुनः एका वरतरुणी विमलजलप्रतिपूर्ण भृङ्गारं गृहीत्वा तिष्ठति, आग्नेयकोणे तु एका वरतरुणी कनकदण्डं मणि विचित्रं तालवृन्तं, अन्ये पुनरेवमाहुःएताः सर्वा अपि देव्यः प्रतिपत्तव्याः, ततः स्वामिन उभयोः पार्श्वयोर्व्यवस्थितौ शक्रेशानौ देवनाथो चामराभ्यां मणिरत्नविचित्रदण्डाभ्यां वीजयतः, एवं भगवति शिबिकान्तवेर्तिनि सिंहासनारूढे सति नन्दिवर्द्धनो राजा निजाभियोग्यपुरुषानाज्ञापयति-परिवहत यूयं शिधिकामिति, ततस्ते एवमुक्काः समाना हर्षापूरितमनसो यावत् शिविकामुत्पादयन्ति तावदत्रान्तरे शक्रो देवराजश्चन्द्रप्रभायाः शिविकाया दाक्षिणात्यामुपरितनी बाहां गृह्णाति, ईशानो देवेन्द्र औतराहामुपरितनी बाहां, चमरोऽसुरराजोऽधस्तनीं दाक्षिणात्यां बाहां, बलिवैरोचनेन्द्रोऽधस्तनीमौत्तराहां बाहाम्, अवशेषा
Jan
Farve Personal
~257