________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम [-]
[भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+वृत्तिः) २
अध्ययनं [-], निर्युक्ति: [ ४५९ - ४६० ], वि० भा० गाथा [-], भाष्यं [ ९२-९३ ], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः
पोद्धा
निर्युकी
श्री
चरिते
॥२६२॥
Jan Education
यावच्च निष्क्रमणाभिषेकोऽलङ्कारश्च क्रियमाणो वर्त्तते तावद्धरणितलं गगनतलं चागच्छद्भिर्गच्छद्भिश्च देवैर्देवीभिश्च निरन्तरं व्याष्ठमुद्योतितं चावतिष्ठते, तव उक्तम्- 'धरणियले गयणतले विज्जुज्जोओ कतो खिष्पं ॥ जाव य कुंडग्गामो' इत्यादि, तत एवं निष्क्रमणाभिषेकेणाभिषिक्ते सर्वालङ्कारविभूषिते च भगवति नन्दिवर्द्धनराज्ञा उपदिष्टाः कौटुम्बिकपुरुषाः - अनेक४ स्तम्भशतसन्निविष्टां मणिकनकविचित्रां पञ्चाशद्धनुरायामां पञ्चविंशतिधनुर्विस्तीर्णा षटूत्रिंशद्धनुरुचां चन्द्रप्रभाभिधानां शिविकामुपस्थापयतेति तेऽपि तथैवोपस्थापयन्ति ( एवं शक्रोऽपि शिविकां कारयति ) नवरं तस्याः प्रागुक्तविमानस्येव वर्णको वक्तव्यः केवलं सा शिविका तामेव नन्दिवर्द्धनकारितां शिविकां दिव्यानुभावतः प्रविष्टा, ततः साऽतीव सुन्दरतरा जाता, ततस्तस्यां शिविकायामुपस्थापितायां भगवान् सिंहासनादुत्थाय अलङ्कारसभातो विनिर्गच्छति, विनिर्गत्य यत्र चन्द्रप्रभा शिविका तत्रागच्छति, ततस्तां प्रदक्षिणीकृत्य समारोहति, आरुह्य च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः । आह च
चंदप्पभा य सीया उवणीया जम्ममरणमुकस्स । आसन्नमल्लदामा जलथलयं दिवकुसुमेहिं ॥ ९२ ॥ भा० ॥ चन्द्रप्रभाभिधाना शिविका या उपनीता-आनीता, कस्येत्यत आह-जन्ममरणाभ्यां मुक्त इव मुतस्तस्य, बर्द्धमानस्येत्यर्थः ॥ किंभूता सेत्याह- आसक्तानि माल्यदामानि यस्यां सा तथा तथा जलस्थलजैश्च दिव्यकुसुमैरर्चितेति वाक्य शेषः ॥ संप्रति शिबिकाप्रमाणदर्शनार्थमाह
पंचासह आयामा घणूणि विच्छिण पण्णवीसं तु । छत्तीसं उद्दिद्धा सीया चंदष्पभा भणिया ॥ ९३ ॥ भा० ॥
Far Pavoce & Personal Use Ony
~ 255 ~
अभिषेकः शिबिका
॥२६२॥