________________
आगम
(४०)
[भाग-4] “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) २ अध्ययनं , नियुक्ति: [४५९-४६०], विभा गाथा , भाष्यं [८९-९१], मूलं [- /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्रा]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
-
दीप अनुक्रम
12 मणाभिषेकसामग्री कारितवान् , तत्राप्राधिकं सहस्त्रं सौवर्णिककलशामा १ अष्टसहवं रूप्यमयागां २ असहनं मपि|मयानां ३ अष्टसहस्र सुवर्णरूप्यमयानां ४ भष्टसहस्रं सुवर्णमणिमयानां ५ अष्टसही रूप्यमणिमयानां ६ अष्टसहलं
सुवर्णरूप्यमणिमयानां ७ अष्टसहस्रं भौमेयानां निष्पन्नं । तदनन्तरमासनं शक्रस्व चलितं, ततो यथा प्राक् कपभदेव-14 * जन्माभिषेकद्वारे शक्रागमनमुपवर्णितं तथैवात्राप्यन्यूनातिरिक्तमुपवर्णयितव्यं, यावत्तेन दिव्येन यानविमानेन स्वामि-14
भवनस्य त्रिकृत्वः प्रदक्षिणां कृत्वा भगवतो भवनस्य उत्तरपूर्वस्यां दिशि चतुरजुलैर्धरणितलमसंप्रासं तत् दिव्यं यानविमानं स्थापयति, सतो दिव्ययानविमानाद्विनिर्गत्य सर्वसामग्रीपरिकलितो भगवन्तं पर्युपासीन आस्ते, एवं पूर्वक्रमेण ईशानेन्द्रादयोऽच्युतेन्द्रपर्यवसाना इन्द्राः सपरिवारा वक्तव्याः, तथा भषनपतिव्यन्तरज्योतिकेन्द्रा अपि सपरिच्छदार,
ततो यथा प्राग् ऋषभस्वामिनो जन्माभिषेकमच्युतेन्द्रादयः कृतवन्त उक्तास्तथाऽत्रापि वक्तव्या पावत् शक्रेण कृतोऽभिशिका, ततो येऽच्युतेन्द्राधाभियोग्यदेवकृताः सौवर्णादिकलशास्ते नन्दिवर्द्धनकौटुम्बिकपुरुषनिर्चितसौवर्णादिकलशेषु
दिव्यानुभावतः प्रविष्टाः, ततस्ते अधिकतरं शोभितवन्तः, ततः स नन्दिवर्द्धनो राजा स्वामिनं सिंहासने पूर्वाभिमुखं निवेश्य देवानीतक्षीरोदसमुद्रादिपानीयः सर्वतीर्थमृत्तिकाभिः सर्वकषायैः सौवर्णादिकलशैरभिषेकं कर्तुमारब्धवान् , सस्मिंश्चाभिषेक कुर्वति सर्वे इन्द्राः सपरिवाराः केचित् कृताञ्जलिपुटाः केचित्कालशहस्तगताः केचित् भृङ्गारहस्तगताः केचिदादहस्तगता जयजयशब्दं प्रयुञ्जानाः स्वामिनः पुरतोऽवतिष्ठन्ते, शेष सबै हिरण्यवर्षादि ऋषभनाथजन्माभिषेकवद्वाच्यं, ततो जन्माभिषेकानन्तरमलङ्कारसभायां केशालङ्कारेण वखालवारेण माल्यालङ्कारेण आभरणालद्वारेण भगवन्तमलङ्कारितवान्,
remona
Private Personale
~2540