________________
आगम
(४०)
[भाग-4] "आवश्यक"- मूलसूत्र अध्ययनं , नियुक्ति: [२९१-२९३], वि०भा गाथा H, भाष्यं [४...], मूलं [- /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
परिपूर्ण शतं पद्मप्रभस्य सप्ताधिकं शतं सुपार्थस्य पञ्चनवतिः चन्द्रप्रभस्य त्रिनवतिः सुषिधिस्वामिनोऽष्टाशीतिः शीतलस्य एकाशीतिः श्रेयांसस्य षट्सप्ततिः वासुपूज्यस्य षट्षष्टिः विमलस्य सप्तपश्चाशत् अनन्तजितः पञ्चाशत् धर्मास्य त्रिचत्वारिंशत् शान्तिनाथस्य पत्रिंशत् कुन्थुनाथस्य पञ्चत्रिंशत् अरजिनस्य त्रयस्त्रिंशत् मलिस्वामिनोऽष्टाविंशतिः मुनिसुव्रतस्वामिनोऽष्टादश नमिनाथस्य सप्तदश अरिष्ठनेमेरेकादश पार्श्वनाथस्य दश वर्द्धमानस्वामिनो नव, एतत् जिनेन्द्राणाम्-ऋषभादीनां जिनानां यथाक्रमं गणानां मान-परिमाणं ॥ सम्प्रति गणधरप्रतिपादनार्थमाइ- .
एक्कारस उ गणहरा वीरजिणिंदस्स सेसयाणं तु । जावइया जस्स गणा तावइया गणधरा तस्स ॥ २९१ ॥ __ गणधरा नाम मूलसूत्रकारः, ते च वीरजिनस्य एकादश, गणास्तु नव, द्वयोर्युगलयोरेकैकवाचनाचारक्रियास्थत्वात्, शेषाणां तु जिनवरेन्द्राणां यस्य यावन्तो गणास्तस्य तावन्तो गणधराः, प्रतिगणधरं भिन्नभिन्नवाचनाचारक्रियास्थत्वात् ॥ गतं गणधरद्वारम् , इदानीं धर्मोपायस्य देशका इत्येतन्याचिख्यासुराहधम्मोवाओ पवयणमहवा पुषाई देसया तस्स । सपजिणाण गणहरा चोदसपुबी उ ते तस्स ।। २९२ ॥
धम्मोपायो नाम प्रवचनं, तदन्तरेण धर्मस्यासम्भवात् , अथवा पूर्वाणि, तस्य-धर्मोपायस्य देशकाः सर्वजिनानां गणधराः, तेषां मूलसूत्रकर्तृत्वात् , अथवा ये यस्य तीर्थकृतश्चतुर्दशपूर्षिणस्ते धर्मोपायस्य देशकाः, परिपूर्णश्रुततया तेषां | यथावस्थितवस्तुदेशकत्वात् ॥
सामाइयाइया या वयजीवनिकायमावणा पदमं । एसो पम्मोवादो जिणेहिं सबेहिं बाहो ॥ २९३ ॥
दीप अनुक्रम
and
remains
For Five Persana tumory
~150