________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम [-]
[भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २
अध्ययनं [-],
निर्युक्तिः [ २८७-२९० ], वि० भा० गाथा [-], भाष्यं [४...], मूलं [- /गाथा - ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः
| प्रमुखाणि पत्रिंशदार्थिकासहस्राणि ३६००० शङ्खप्रमुखाणां श्रमणोपासकानामेकं लक्षं एकोनषष्टिः सहस्राणि १५९००० |सुसारेवतीप्रमुखाणां श्रमणोपासिकानां त्रीणि शतसहस्राणि अष्टादश सहस्राणि ३१८००० त्रीणि शतानि चतुर्दश* पूर्विणां ३०० त्रयोदश शतानि १३०० अवधिज्ञानिनां सप्त शतानि ७०० केवलज्ञानिनां सह शतानि ७०० वैक्रिय४ लब्धिमतां पञ्च शतानि ५०० विपुलमतीनां चत्वारि शतानि ४०० वादिनामष्टौ शतानि ८०० अनुत्तरोपपातिनाम् ॥ गतं सङ्ग्रहद्वारम् अधुना तीर्थद्वारमाह
॥ २०९ ॥
उपोद्घातनिर्युतिः
Jan Educat
तित्थं चाद्दण्णो संघो सो पढमए समोसरणे । उप्पण्णो उ जिणाणं वीरजिनिंदस्स बीयंमि ॥ २८७ ॥ तीर्थ नाम प्रवचनं तच निराधारं न भवतीति चतुर्वर्णः सङ्घ उच्यते स जिनानाम् ऋषभादीनां प्रथम एव समव| सरणे उत्पन्नः, वीरजिनेन्द्रस्य पुनर्द्वितीये समवसरणे, मध्यमायां पुरि, यत्र हि केवलज्ञानमुत्पन्नं तत्र तथाकल्पत्वात्सम|वसरणमभूत् यावता न तत्र सङ्घो जातः ॥ गतं तीर्थद्वारम् अधुना गणद्वारमाह
चुलसी पंचणउई बिउत्तरं सोलसुत्तरसयं च । सत्तहियं पणन उई तेप्पउई अट्ठसीई य ॥ २८८ ॥ एक्कासी छाबसरी य छावट्टि सत्तवन्ना य । पन्ना तेयालीसा छत्तीसा चैव पणतीसा ॥ २८९ ॥ तेतीसावीसा अट्ठारस चैव तहय सत्तरस । एक्कारसदसनवर्ग गणाण माणं जिनिंदाणं ॥ २९० ॥ भगवत आदितीर्थंकरस्य चतुरशीतिर्गणा, गणो नामेह एकवाचनाचारक्रियास्थानां समुदायो, न कुलसमुदाय इति पूर्वसूरयः, अजितस्वामिनः पञ्चनवतिर्गणाः सम्भवनाथस्य ह्युत्तरं शतम् अभिनन्दनस्य षोडशोचरं शतं सुमतिनाथस्य
For Peace & Personal Use Only
~149~
तीर्थ गण
मानं च गा.
| २८७-९०
| ॥ २०९ ॥