________________
आगम
(४०)
[भाग-3] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं H, नियुक्ति: [१३६], भाष्यं H, विभा गाथा , मूलं [- /गाथा-] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [[] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम
धापि तेषां भगवदाज्ञावर्तित्वादल्पपापभाजां मिध्यादुष्कृतादिमात्रेणापि विशुद्धिरुपजायते, शिभ्यस्तु भगवदाज्ञाविलोपत्तो गुर्वाशातनायाश्चोपचिताशुभगुरुकर्मा दीर्घतरसंसारभागी, किश्च-एवं स वर्तमानो मतिमानपि श्रुतरसाइहिर्भवति, अन्यत्रापि तस्य दुर्लभश्रुतत्वात् , कोहि नाम सचेतनो दीर्घतरजीविताभिलापी सर्पमुखे स्वहस्तेन पयोविन्दून प्रक्षिपतीति, स एकान्तेनायोग्यः। प्रतिपक्षभावनायामपीदमेव कथानकं परिभावनीयम्, केवलमिह घृतघटे भने सति द्वावपि ती दम्पती त्वरितत्वरित कर्परेर्यथाशक्ति घृतं गृहीतवन्तौ, स्तोकमेव विननाश, निन्दति चात्मानमामीरो यथा-हीन मया घृतघटस्ते सम्यक समर्पितः, आभीर्यपि वदति-समर्पितस्त्वया सम्यक् न मया सम्यक् गृहीता, तत एवं तयोर्न कोपावेशदुःखं नापि घृत
हानिः नापि सकाल एवान्यसार्थिक सह स्वग्राममभिसर्पतामपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजन जाती, एवमि-15 दाहापि कथञ्चिदनुपयोगादिनाऽन्यथारूपे व्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सूरिणा शिष्यं पूर्वमुकं|
व्याख्यानं चिन्तयन्तं प्रति एवं वक्तव्यम्-वत्स! मैवं व्याख्यः, मया तदानीमनुपयुक्तन व्याख्यातं, तत एवं व्याख्याहि, तत एवमुक्ते सति यो विनेयः कुलीनो विनीतात्मा स एवं प्रतिवदति-यथा भगवन्तः किमन्यथा प्ररूपयन्ति', केवलमहं 5 मतिदौर्बल्यादन्यथाऽवगतवानिति, स एकान्तेन योग्यः॥ तदेवमाचार्यशिध्यदोषगुणकथनलक्षणो व्याख्यानविधिः प्रतिपादितः, सम्प्रति कृतमङ्गलोपचारो व्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरुपोद्घातं प्रतिपादयतिआवश्यक मलयगिरिजी वृत्ते: पूर्वार्धस्य प्रथमो भाग समाप्त:
द्वितिय भागस्य आरंभ: नियुक्ति: [१३५,१३६], १ से २६ द्वारैः कृत: आवश्यक- मूलसूत्र- [४०/१] नियुक्ति एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी (M.Com.,M.Ed.,Ph.D.,श्रुतमहर्षि]
~313