________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्तिः [ १०४, १०५], भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा -]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्घात
निर्युतिः
॥१११॥
तेन प्राप्नोति, किन्तदित्याह - सामायिकं, किं तदित्याह चतुर्णा - सम्यक्त्व सामायिक श्रुतसामायिकदेशविर तिसामायिकसर्व | विरतिसामायिकानामेकतरम् - अन्यतमद्, अपिशब्दात् मतिज्ञानादि च न लभते, न केवलमेतानि न लभते, पूर्वप्रतिपन्नोऽध्यायुर्वर्जकर्मोत्कृष्टस्थितौ न भवति, यतोऽवाप्तसम्यक्त्वस्तत्परित्यागेऽपि न भूयो ग्रन्थिमुहयोत्कृष्टस्थितीः कम्मप्रकृतीर्थ - प्राति, 'बंघेण न बोलइ कयाई' ति वचनात् एष सिद्धान्तिकाभिप्रायः, कर्म्मग्रन्धिकास्तु भिन्नप्रन्धेरप्युत्कृष्ट स्थितिबन्धो भवतीति प्रतिपन्नाः, आयुषस्तूत्कृष्टस्थितौ वर्त्तमानः सम्यक्त्व श्रुतसामायिकयोरनुत्तरसुर उपपातकाले पूर्वप्रतिपन्नो न प्रतिपद्यमानकः, पूर्वमवश्यं प्रतिपञ्चत्वात, आयुषस्तु जघन्यस्थितौ वर्त्तमानो न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, आयुर्जघन्यस्थितिः शुल्लकभवग्रहणप्रमाणा, सा च वनस्पतिषु न च वनस्पतिषु सम्यक्त्वस्यापि पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, साखादनसम्यक्त्वसहितस्यापि तेष्वनुत्पादात्, 'उभयाभावो पुढवाइपसु' इति वचनात्, प्रकृतीनां चोत्कृष्टेतरभेदभिन्ना स्थितिरियं ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां उत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीको ट्यः सप्ततिर्मोहनीयस्य नामगोत्रयोविंशतिः त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्येति, जघन्या तु द्वादश मुहूर्त्ता वेदनीयस्य नामगोत्रयोरटी शेषाणामन्तर्मुइर्त्तमिति, उक्तं च- "बीसमयरोवमाणं कोडाकोडीउ नामगोयाणं । सयरी मोहस्स ठिई सेसाणं तीस उक्कोसा ॥ १॥ आउस्स सागराई तेत्तीस अवरतो मुहुत्तो। अट्ठ उ नामागोप वेयणिए बारस मुहुत्ता ||२|| ” (वि. ११८७-८) नन्वेताः कर्म्मप्रकृतयः किं युगपदेवोत्कृष्टां स्थितिमासादयन्ति उत एकस्यामुत्कृष्टस्थिति मापनायां सत्यामन्या अपि नियमत उत्कृष्टस्थितयो जायन्ते, आहोम्बिदन्यथा वैचित्र्यमिति १, उच्यते, अन्यथा वैचित्र्यं तथाहि — मोहनीयस्वोत्कृष्टायां स्थितौ शेषाणा
For Pruate & Personal Use Orty
~244~
श्रुतस्य क्षा
योपसामाचिकलाभः १०४-५
॥ १११ ॥