________________
आगम
(४०)
प्रत सूत्रांक [-]
दीप अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्तिः [८२], भाष्यं [-] वि० भा० गाथा [ १०५८ ], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
भागोऽस्य महाभागो - महाप्रभावस्तं, तथा मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात, महांश्चासौ सुनिश्च | महामुनिः, तथा त्रैलोक्यव्यापित्वान्महद्यशोऽस्येति महायशास्तं, महावीरमित्यभिधानं, तत्वेयं व्युत्पत्तिः 'शूर वीर विक्रान्ती' | कषायादिशत्रुजयात् महाविक्रान्तो महावीरः, यदिवा 'ट विदारणे' विदारयति कर्म्मरिपुसङ्घातमिति वीरः, अथवा अनन्यानुभूतमहातपःश्रिया विशेषतो राजते इति वीरः, अन्तरङ्गमहामोहवलनिर्दलनाय तपोवीर्यमनन्तं व्यापारयतीति घा वीरः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, उक्तं च- "विदारयति यत्कर्म्म, तपसा च विराजते । तपोवीर्येण युक्तच, तस्माद्वीर इति स्मृतः ॥ १ ॥” तथा अमराश्च नराश्य अमरनरास्तेषां राजानः- इन्द्रचक्रवर्त्तिप्रभृतयस्तै मे हितः -पूजितस्तं, तीर्यकरंतीर्थकरणशीलं कस्य तीर्थस्य करणशीलमित्यत आह-अस्य वर्त्तमानकालावस्थायिनस्तीर्थस्य । एवं तावदर्थवतुर्मङ्गलार्ष वन्दनमुक्तम्, इदानीं सूत्रकर्तृप्रभृतीनामपि पूज्यत्वाद्वन्दनमाह
कारसवि गणहरे पवाघए पवयणस्स वंदामि । सर्व्वं गणहरवंसं वायगवंसं पदयणं च ॥ ८२ ॥ एकादशेति सङ्ख्यावाचकः शब्दः, अपिः समुच्चये, अनुत्तरं ज्ञानदर्शनादिधर्म्मगणं धारयन्तीति गणधरास्तान्, प्रकर्षेण प्रधाना आदौ वा वाचकाः प्रवाचकास्तान्, कस्य प्रवाचकाः?, प्रवचनस्य द्वादशाङ्गस्य,वन्दे, एवं तावत् मूलगणधरवन्दनं कृर्त, | तथा सर्वे-निरवशेषं गणधरा- आचार्यास्तेषां वंशः - परम्परया प्रवाहस्तं तथा वाचका उपाध्यायास्तेषां वंशस्त्रं, तथा प्रवचनम् - आगमं च वन्दे, आह च-तीर्थकृतो मूलगणधराश्च वन्द्याः स्युः, तेषां यथाक्रममर्थसूत्रप्रणेतृत्वात् वंशद्वयस्य प्रवचनस्य च कथं कन्द्यता, उच्यते, इह यथा अर्थवकारोऽर्हन्तो वन्द्याः सूत्रवकारश्च गणधरास्तथा यैरिदमाचार्योपाध्यायैरर्यसूत्ररूपं प्रवचनमा
... गणधर आदेः वंदना
For Pruabe & Personal Use Orty
221~