SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १ अध्ययनं , नियुक्ति: [१६], भाष्यं H, विभा गाथा [७३८], मूलं - /गाथा-] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः । प्रत सूत्रांक * * दीप अनुक्रम मध्यगतः, अथान्तगत इति कः शब्दार्थः १, उच्यते, इह पूर्वाचार्यप्रदर्शितमर्थत्रयम्, अन्ते-आत्मप्रदेशानां पर्यन्ते गताः|स्थितोऽन्तगतः, कात्र भावनेति चेत्, उच्यते-इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्धकं च नाम अवधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः, तथा चाह भाष्यकृत्स्वो. पज्ञभाग्यटीकायां-"स्पर्द्धकमवधिविच्छेदकविशेष" इति, तानि च एकजीवस्यासोयानि सोयानि वा भवन्ति, यद्धश्यति-फडा य असंखेज्जा संखेजे यावि एगजीवस्स' (वि. ७३८) इति, तानि च विचित्ररूपाणि कानिचित्पर्यन्तव[चिषु मात्मप्रदेशेषूत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिन्मध्यवर्तिवारमप्रदेशेषु, तत्र यः पर्यन्तवर्तिष्वात्मप्रदेशेष्ववधिरुत्पद्यते स आत्मनः पर्यन्ते स्थित इतिकृत्वा अन्तगत इत्यभिधीयते, तैरेव पर्यन्तवचिंभिरात्मप्रदेशैः साक्षादवबोधात्, अथवा औदारिकशरीरस्यान्ते गतः-स्थितोऽन्तगतः, औदारिकशरीरमधिकृत्य कयाचिदेकया दिशोपलम्भात् , इदमपि सर्द्धकरूपकमवधिज्ञानं, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेडपि औदारिकशरीरान्ते कयाचिदेकया दिशा यशादुपलभते सोऽप्यन्तगतः, आह-यदि सर्वेषामप्यात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति?, उच्यते, एकदिशैव क्षयोपशमसम्भवात् , विचित्रो हि देशाद्यपेक्षया कर्मणां क्षयोपशमः, ततः सर्वेषामयात्मप्रदेशानामित्थंभूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचिद्विवक्षितया दिशा पश्यतीति, तथा चोक्तं नन्द्यध्ययनचूणौँ “ओरालियसरीरंते ठियं-गति एगहुँ, तं च आयप्पएसफड्डगावहिएगदिसोपलंभाओ य अंतगयमोहिनाणं भन्नइ, अहवा सवायप्पएसेसु विसुद्धेसुधि ओरालियसरीरगंण एगदिसि पासेण JanEducatun incom . For a From Us ~159~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy