________________
आगम
(४०)
प्रत सूत्रांक
[H]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+वृत्तिः) १
अध्ययनं [-] निर्युक्तिः [४१] भाष्यं [-] वि० भा० गाथा [ ५४५, ५४६, ६५५,६५६], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
आ. सू. १९
प्फासो य जसो भणितो एसो य चडफासो । अण्णेऽवि ततो पोग्गलभेया संतित्ति सद्धेयं ॥२॥ (वि. ५४५- ५४६ ) इह प्राक् 'वजसभाषाद्रव्याणामपान्तराले गुरुलप्यगुरुलघु च जघन्यावधिप्रायोग्यं द्रव्यमुक्तम्, जघन्यावधिश्च द्विधा - गुरुलघुद्रव्यारच्धोऽगुरुलघुद्रव्यारव्घव, तत्र गुरुलघुद्रव्यारब्धः कोऽपि तान्येव तैजस प्रत्यासन्नानि गुरुलघुद्रव्याणि दृष्ट्वा विध्वंसमापद्यते, 'तंपिय तेणेव निहाइ' इति वचनात् यस्तु विशुद्धिमासादयन् प्रवर्द्धते सोऽधस्तनानि तान्येव गुरुल घूम्यौदारिकादीनि द्रव्याणि दृष्ट्वा ततोऽधिकतरां विशुद्धिमासादयन् क्रमेणैवागुरुलघूनि भाषादिद्रव्याणि पश्यति, अगुरुलघुद्रव्यसमारब्धोऽपि कश्चिदू हि वर्द्धमान इतराण्यपि तत्कालं गुरुलघून्यौदारिकादीनि पश्यति, उक्तं च- "गुरुलहुदद्वारद्धो गुरुलहु || दवाइ पेच्छिउं पच्छा । इयराई कोइ पेच्छा, विमुज्झमाणो कमेणेव ॥१॥ अगुरुलहुसमारद्धो उहुं बहइ कमेण सो नाहो । वतोऽविय कोई पेच्छइ इयराई सयराहं ॥ २ ॥” (वि. ६५५ - ६५६) अत्र 'सयराह' मिति शीघ्रं युगपदिति तात्पर्यार्थः ॥ अथ किं गुरुलघु किं वा अगुरुलघु इति शङ्कायां तत्स्वरूपप्रतिपादनार्थमाह
"ओरालिय उद्दिय आहारग तेय गुरुलहू दवा । कम्मगमणभासाई एयाई अगुरुलहुयाई ॥ ४१ ॥
द्वौ नयाँ व्यवहारनयो निश्चयनयश्च तत्र व्यवहारनयः ग्राह-चतुर्थी द्रव्यम्, तद्यथा किञ्चिद्गुरु किञ्चिल्लघु किञ्चिगुरुलघु किञ्चिदगुरुलघु, तत्र यदूर्ध्व तिर्यग्वा प्रक्षिप्तमपि पुनर्निसर्गादधो निपतति द्रव्यं तद्गुरु, तद्यथा लोवादि, यत्तु द्रव्यं निसर्गत एवोर्ध्वगतिस्वभावं तलघु, वथा दीपकलिकादिः यत्पुनर्नोर्ध्वगतिस्वभावं नाप्यधोगतिस्वभावं किन्तु स्वभावेनैव तिर्यग्गतिधर्मकं तद्गुरुलघु, यथा वायुः, यत्तूर्ध्वाधस्तिर्यग्गतिस्वभावानामेकतरस्वभावमपि न भवति
Far Finate & Personal Use Only
~143~