________________
आगम
(०५)
प्रत सूत्रांक
[४०८
४३६]
गाथा
दीप
अनुक्रम [ ४९४
५२८]
श्रीभग० लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२
शतक [११], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१२], मूलं [ ४०८-४३६] + गाथा
य'त्ति कौतुकानि भूतिरक्षादीनि मङ्गलानि - सिद्धार्थकादीनि तद्रूप उपचारः- पूजा तेन कृतं शान्तिकर्म यस्य 'सरित्तयाणं' ति सहत्वचां सदृशच्छवींनां 'सरिव्वयाणं' ति सहग्वयसां, 'लायण्ण' त्ति लावण्यं - मनोज्ञता गुणाः प्रियभाषित्वादयः, 'कडगजोए 'ति कलाचिकाभरणयुगं 'तुडिय'त्ति बाह्राभरणं 'खोम'त्ति कार्पासिकं वस्त्रं 'कडग'त्ति उसीरमयं वस्त्रं 'पद्य'त्ति पट्टसूत्रमयं, 'दुगुल्लति दुकूलाख्यतरुत्वग्निष्पन्नं, श्रीप्रभृतयः षड् देवताप्रतिमाः, नन्दादीनि मङ्गलवस्तूनि अन्ये तु नन्दं वृत्तलोहासनं भद्रं शरासनं मूटक इति यत् प्रसिद्धं, 'ताल'ति तालवृक्षान् 'वय'त्ति ब्रजान् गोकुलानि 'सिरिघर'त्ति भाण्डागारतुल्यानि रत्नमयत्वात् 'जाणाइं'ति शकटादीनि 'जुग्गाई'ति गोलदेशप्रसिद्धानि जंपानानि 'सिबियाओ'त्ति शिविकाः कूटाकाराच्छादितजम्पानरूपाः 'संदमाणियाओ'त्ति स्यन्दमानिका:- पुरुषप्रमाणाः जम्पानविशेषास्तानेव 'गिल्लीउ'त्ति हस्तिन उपरि कोल्लराकाराः 'थिल्लीओ'ति लाटानां यानि अड्डपल्यानानि तान्यन्यदेशेषु थिल्लीओ उच्यन्ते अतस्ताः, 'विगडजाणाई' ति विवृतयानानि तलटकवर्जितशकटानि 'पारिजाणिए 'त्ति परियानप्रयोजनाः पारियानिकास्तान् 'संगामिए'त्ति सङ्ग्रामप्रयोजनाः साङ्ग्रामिकाः तान् तेषां च कटीप्र | माणा फलकवेदिका स्यात्, कंचुइज्जे' त्ति प्रतीहारान् 'वरसघर'ति वर्षधरान् वद्धितमहलकान् कृत्रिमक्कीबान् 'महत्तरए' त्ति महत्तरकान् अन्तःपुरचिन्तकान् 'ओलंबणदीवे 'ति शृङ्खलाबद्धदीपान् 'उकंचण'ति उत्कम्बलदीपान् ऊर्ध्वदण्डतः 'तिष्णि व'त्ति | सुवर्णरूप्यमिश्रभेदात् 'पञ्जरदीवे'त्ति अभ्रपटलबद्धदीपान् 'थासगाई' ति आदर्शकाकारान् 'तलियाओ'त्ति पात्रीविशेषान् 'कवियाओ'त्ति कलावका: 'अवएड'ति तापिका हस्तान् 'अवयवक्काओ' ति अवपाक्यः तापिकाः सम्भाव्यन्ते 'भिसियाओ त्ति आसन विशेषान् 'पडिसिजाओ'ति उत्तरशय्याः 'करोडियाओ'त्ति स्थगिकाः 'उन्नयासणाई'ति उन्नताद्याकारोपलक्षितानि
११ श०
११ उद्दे.
68~
॥ १७७॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः