SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३९३ ४०७] गाथा दीप अनुक्रम [४७४ ४९३] श्रीभग० लघुवृत्ती “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [१०], वर्ग [-] अंतर- शतक [-] उद्देशक [१-३४], मूलं [ ३९३- ४०७ ] + गाथा शस्तत्रासङ्ख्यातास्ते स्युः, लोकव्यापकावस्यानिन्द्रियस्य पुनर्यद्यप्येकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथापि तत्प्रदेशपदे बहुवचनान्तमेव, आग्नेय्यां तत्प्रदेशानामसङ्ख्यातानामवगाढत्वात्, अतः सर्वेषु द्विकसंयोगेष्वाद्यरहितं भङ्गद्वयमेव, एतदेवाह - 'आइल| विरहिओ'त्ति द्विक्रमङ्ग इति, 'विमलाए जहा जीवा अग्गेईए' त्ति विमलायामपि जीवानामनवगाहात्, 'अजीवा जहा इंदाए' सदृग्वक्तव्यत्वात्, 'एवं तमावि'त्ति विमलावत्तमा वाच्येत्यर्थः, विमलायामपि अनिन्द्रियसद्भावात् तद्देशादयो युक्ताः तमायां तु तस्यासम्भवात् कथं ते इति १, उच्यते दण्डाद्यवस्थं तमाश्रित्य तस्य देशो देशाथ विवक्षया तत्रापि युक्ता एव, अथ तमायां विशेषमाह - 'नवरं 'ति 'अद्धासमओ' त्ति समयव्यवहारो हि सञ्चरिष्णुर्यादिप्रकाशकृतः, स च तमायां नास्तीति तत्रादासमयो न भण्यते, अथ विमलायामपि नास्त्यसाविति कथं तत्र समयव्यवहार इति उच्यते, मंदरावयवभूतस्फटिककाण्डसूर्यादिप्रभासङ्क्रान्तिद्वारेण तत्र सञ्चरिष्णु सूर्यादि प्रकाशभावादिति, 'ओगाहणसंठाणं' ति ( मू. ३९४) प्रज्ञापनायामेकविंशतितमं पदं, तच्चैवम्- 'पंचविहे पण्णत्ते, तंजहा- एगिंदियओरालियसरीरे जाव पंचेंदियओरा० सरीरे, वाचनान्तरे त्वस्य सङ्ग्रहगाथामाह- "कड़संठाणपमाणं पोग्गलचयणं सरीरसंजोगो । दब्बपएसप्पबहुं सरीर ओगाहणाए य ॥ १ ॥" 'कड़'त्ति कति वपूंषि ?, औदारिकादीनि ५ 'संठाण' त्ति वपुषां संस्थानं वाच्यं यथा नानासंस्थानमौदारिकं, 'पमाणं' ति एषामेव प्रमाणं वाच्यं यथा औदारिकं | जघन्यतोऽङ्गुलासङ्ख्येय भागमात्रं, उत्कृष्टतस्तु सातिरेकयोजन सहस्रमानं, एपामेव पुद्गलचयापचयौ वाच्यौ यथौदारिकस्य निर्व्याघातेन ६ दिक्षु, व्याघातं प्रतीत्य स्यात् त्रिदिशीति, एषां संयोगो वाच्यो, यथा यस्यौदारिकं शरीरं तस्य वैक्रियं स्यादस्तीति एषामेव द्रव्यार्थतया प्रदेशार्थतया चाल्पबहुत्वं वाच्यं यथा 'थोवा आहारगसरीरा दब्बट्टयाए' एपामेवावगाहनाया अल्पबहुत्वं वाच्यं, १० श० १ उद्देशः पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः ~45~
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy