________________
आगम
(०५)
प्रत
सूत्रांक
[ ३६०
३९२]
गाथा
दीप
अनुक्रम [३६२
४७३]
श्रीभग० लघुवृत्तौ
CatCODEO
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४], मूलं [ ३६० ३९२ ] + गाथा
'इसिं' ऋषि 'अगंता जीवा हणइति ऋषि मन्ननन्तान् जीवान् हन्ति यतस्तद्धाते अनन्तानां घातः स्यात्, मृतस्य तस्य अनार्योत्पन्नस्य ऋपेर्विरतेर भावेनानंतजीव घातकत्व भावात्, अथवा ऋषिजीवन् बहून् प्राणिनः प्रतिबोधयति, ते च प्रतिबुद्धाः क्रमा| न्मोक्षमासादयति, मुक्ताश्चानन्तानामघातकास्स्यु तद्वधे चैतत्सर्वं न स्यात्, अतस्तद्वन्धेऽनन्तजीववधः स्यात्, 'निक्खेवओ' ति निगमनं, 'नियमं 'ति नियमात् पुरुषवैरेण स्पृष्टः, पुरुषस्य हतत्वात् पुरुषवधेनेति एको भङ्गः, तत्र यदि प्राण्यन्तरमपि हतं तदा पुरुषवैरेण नोपुरुषवैरेणेति द्वितीयः यदि तु बहवः प्राणिनो हतास्तत्र तदा पुरुषवैरेण नोपुरुषवैरैवेति तृतीयः इति सर्वत्र त्रयं ऋषिपक्षे तु ऋषिवैरेण नोॠषिवरंश्वेत्येवमेक एव, ननु यो मृतो मोक्षं यास्यति, अविरतो न भविष्यति, तस्य ऋषेधे ऋषिवैरमेव स्यात्, अतः प्रथम [समय ] विकल्पसम्भवः, अथ चरमशरीरस्य निरुपक्रमायुष्कत्वान्न हननसम्भवः ततोऽचरमशरीरापेक्षया यथोक्तभङ्गसम्भवो नैवं, यद्यपि चरमशरीरो निरुपक्रमायुष्कस्तथापि तद्वघाय प्रवृत्तस्य यमुनराजस्येव वैरमस्त्येवेति प्रथमभङ्गसम्भव इति, सत्यं, किन्तु यस्य ऋषेः सोपक्रमायुष्कत्वात् पुरुषकृतो वधः स्यात् तमाश्रित्येदं सूत्रं, तस्यैव हननस्य मुख्यवृत्या पुरुषकृतत्वात् || अथ हननं उच्छ्वासादिवियोगोऽत उच्छ्वासादिवक्तव्यतामाह- 'पुढविकाइया णं भंते 'ति (सु. ३९१) इह पूज्यव्याख्या यथा - वनस्पतिरन्यस्योपर्यन्यः स्थितस्तत्तेजो ग्रहणं कुर्यात् एवं पृथ्वीकायिकादयोऽप्यन्योऽन्यसम्बद्धत्वात् तद्रूपं प्राणातिपातादिकं कुर्युः, तत्रैकः पृथ्वीकायिकोऽन्यं स्वसम्बद्धपृथ्वीकायिकं आनिति तद्रूपमुच्छ्रासं कुर्यात् यथोदरस्थितकर्पूरः पुरुषः कर्पूररूपमुच्छ्रासं कुर्याद्, एवमप्रकायिकादिकानित्येवं पृथ्वीकायिकसूत्राणि पञ्च, एवमष्कायादयः प्रत्येकं पञ्च २ सूत्राणि लभन्त इति पञ्चविंशतिः सूत्राणि स्युरिति, क्रियात्राण्यपि पञ्चविंशतिः, तत्र 'सिय तिकिरिति यदा पृथिवीकायिकादिः पृथ्वीकायिकादिरूपमुच्छासं
९ शतके ३४ उद्दे.
~42~
॥१६४॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः