________________
आगम
(०५)
प्रत
सूत्रांक
[ ३६०
३९२]
गाथा
दीप अनुक्रम [३६२
४७३]
श्रीभग०
लघुवृत्तौ
OSHOHOCHOCO BHOSDOE SOCH
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४], मूलं [ ३६० ३९२ ] + गाथा
जण 'त्ति मनस्समृद्धिकारकः, 'उबर' ति उदुम्बरपुष्पवदुर्लभः 'सवणयाए' श्रवणतायै श्रोतुमित्यर्थः, 'किमंग'त्ति किं पुनः १, अङ्गेत्यामन्त्रणे, 'अच्छाहि' आस्ख 'बडिय'त्ति पुत्रपौत्रादिवृद्धिमुपनीतः कुलवंश ः- सन्तानः स एव तन्तुः दीर्घत्वसाधर्म्यात् कुलवंशतंतुस्स एवं कार्यं कृत्यं कुलवंशतन्तुकार्य 'निरवयवे' निरपेक्षः, 'तहावि णं तं'ति तथैव तत्रान्यथा 'सारीर' चि शारी राणि मानसिकानि प्रकामदुःखानि तद्वेदनं व्यसनानि - द्यूतादीनि तच्छतानि उपद्रवा राजादिकृताः अधुवो-न धुवः सूर्योदयकालवत्, 'अगिइए' इतिशब्दो नियतार्थीपदर्शकः, न विद्यते इति यत्रासावनितिः, न नियतस्वरूप इत्यर्थः, ईश्वरादेरपि दारिद्रयभावात्, 'सडण'ति शटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं खङ्गादिना अङ्गच्छेदनं विध्वंसनं क्षयः, एत एवं धर्मा यस्य स तथा, 'अवस्सविप्पजहि'त्ति अवश्य विप्रहातव्यः- त्याज्यः, 'से णं'ति अथ कोऽसौ जानाति, 'के पुठिंव'ति कः प्राक् पितृपुत्रयोरन्योऽन्यतो गमनायोत्सहते 'पच्छा' कः पश्चाद्गमनाय तत्रैवोत्सहते, कः पूर्वं कः पश्चान्प्रियते इत्यर्थः, 'वंजण' त्ति व्यंजनं-मपीतिलकादि बलं शारीरः प्राणः वीर्य मानसोऽवष्टम्भः सत्वं चित्तविशेषः तैर्युक्तं 'समसि' समुच्छ्रितं 'अभिजाय'ति अभिजातं कुलीनं, महती क्षमा यत्र तत्तथा, 'निरुवहय'ति निरुपहतानि वातादिप्रकोपेन 'उदत्त' ति उदात्तानि वर्णगुणैः लष्टानि रम्याणि पञ्चेन्द्रियाणि यत्र तत्तथा 'संनिकेय'ति सन्निकेतं स्थानं 'अडिय'नि अस्थिकरूपकाष्ठानि तेभ्य उत्थितं 'सिर'ति शिरोनाड्यः 'पहारु'त्ति स्नायबस्तासां जालं-वृन्दं तेन पिनद्धं सम्पिन-अत्यर्थं वेष्टितं यत्तत्तथा, 'अणिडुविय'त्ति अनिष्ठापिता-असमापिता सर्वकालं सदा संस्थाप्यता-तत्कृत्यकरणं यस्य तत्तथा, 'जराकुणिम'त्ति जराकुणपश्च- जीर्णशवो जर्जरगृहं च जीर्णगेहं समाहा रद्वन्द्वाञ्जराकुणपजर्जरगृहं तदिव, किमित्याह- 'सडणे'त्यादि, कलाकुशलाः सर्वकलालालिताः सुखोचिताः 'विणओवयार'ति
९ शतके ३३ उद्दे.
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
~37~