________________
आगम
(०५)
प्रत
सूत्रांक
[ ३६०
३९२]
गाथा
दीप
अनुक्रम [३६२
४७३]
श्रीभग०
लघुवृत्तौ
HOE JUG HOLJO
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-२
शतक [९], वर्ग [-] अंतर् शतक [], उद्देशक [१-३४], मूलं [ ३६०-३९२] + गाथा
बहुत्वमाह- 'एयस्स नं'ति तत्र सर्वस्तोकं सप्तमपृथ्वीनारकप्रवेशनकं, तद्गामिनां शेषापेक्षया स्तोकत्वात् ततः पष्ठ्यामसङ्ख्यातगुणाः, तद्गामिनामसङ्ख्यातगुणत्वात् एवमुत्तरत्रापि । अथ तिर्यक्प्रवेशनकमाह-'तिरिक्ख'त्ति (व. ३७३) इहैकस्तिर्यग्योनिक एकेन्द्रियेषु स्यादित्युक्तं, तत्र यद्यप्ये केन्द्रियेष्वेकः कदाचिदप्युत्पद्यमानो न लभ्यते, अनन्तानामेव तत्रानुसमयमुत्पत्तेः, यतः'अणुसमयमसंखिजा एगिदिय हुंति य चवंति' इति वचनात् तथापि देवादिभ्य उद्धृत्य यस्तत्रोत्पद्यते तदपेक्षयैकोऽपि लभ्यते, एतदेव प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति, सजातीयेषु संजातीयः प्रविष्ट एव इति किं तत्र प्रवेशनक उच्यते, तत्रैकस्य क्रमेणकेन्द्रियादिपञ्चसु पदेषु उत्पादे ५ भेदाः, द्वयोरप्येकैकसिनुत्पादे पञ्चैव द्विकयोगे १० भेदाः, एतेनैव सूचयता 'अहवा एगिंदिएसु' इत्यायुक्तं, अथ सङ्क्षेपार्थं व्यादीनामसङ्ख्यातपर्यन्तानां तिर्यग्योनिकानां प्रवेशनकं दर्शयन्नाह'एवं जह'ति नारकप्रवेशनकसममिदं सर्वं परं तत्र सप्तपृथ्वीष्वेकादयो नारका उत्पादिताः तिर्यञ्चश्च तथैव पञ्चस्थानेपुत्पादनीयाः, ततो विकल्पनानात्वं स्यात् तच्च श्रागुक्तन्यायेन स्वयमध्येयमिति । इह चानन्तानामेकेन्द्रियाणामुत्पादेऽपि अनन्तपदं नास्ति, प्रवे| शनकस्योक्तलक्षणस्यासख्यातानामेव भावादिति, 'सव्वेऽवि ताब एगिंदिएस होज'त्ति एकेन्द्रियाणामतिबहूनां प्रतिसमयमुत्पादात्, 'दुया संजोगो'त्ति इह प्रक्रमे द्विकसंयोगश्रतुर्द्धा त्रिकसंयोगः पोढा, चतुष्कयोगचतुर्द्धा, पञ्चकयोगस्त्वेक एव । 'सव्वत्थोवे पंचिदिय'त्ति पक्षेन्द्रियजन्तूनां स्तोकत्वात् ततश्चतुरिन्द्रियादिप्रवेशनकानि परस्परेण विशेषाधिकानि (सू. ३७४) मनुष्यदेवप्रवेशन के सुगमे तथापि किञ्चिदुच्यते-सम्मूर्च्छिमगर्भजलक्षणस्थानद्वयमाश्रित्यैकादिसङ्ख्यातान्तेषु प्राग्वद् भेदाः कार्याः, तत्र चातिदेशानामन्त्यं सङ्ख्यातपदमिति तद्भेदानाह- 'संखेज्जाई' ति इह द्विकयोगे प्राग्वदेकादश भेदाः, असङ्ख्यातपदे पूर्व १२
शतके
४ उद्देशः
~32~
॥१५९॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
••• अत्र शतक ९, उद्देशक: ३३ वर्तते । मूल संपादने यत् उद्देशकः ४ मुद्रितं तत् मुद्रणदोषः ज्ञातव्यः