________________
आगम
(०५)
प्रत
सूत्रांक
[६९३
७१५]
गाथा
दीप
अनुक्रम
[८३५
८६०]
श्रीभग० लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा
स्थितिर्जघन्या उत्कृष्टा च सर्वेष्वपि गमेषु प्रतीतैव, संवेधस्तु तृतीय सप्तमयोजघन्येन दश वर्षसहस्राण्यन्तर्मुहूर्त्ताधिकानि उत्कर्षतो - ऽष्टसु भवग्रहणेषु दशसहख्याः प्रत्येकं भावादशीतिर्वर्षसहस्राणि षष्ठाष्टमयोस्तु जघन्येन १० वर्षसहस्राण्यन्तर्मुहूर्त्ताधिकानि, उत्कृष्टतस्तु ४४ वर्षसहस्राण्यन्तर्मुहूर्त्तचतुष्टयाधिकानि, नवमे तु जघन्यतः २० वर्षसहस्राण्युत्कर्षतस्त्वशीतिरिति ।। २४ शते पोडशः। अथ द्वीन्द्रियस्य २४ दण्डकोत्पादरूपः सप्तदश आरभ्यते- 'सच्चेव पुढविकाइयस्स'त्ति (सू. ७०८) या पृथ्वीकायिकस्य पृथ्वी कायि के पूत्पित्सोर्लब्धिः प्रागुक्ता द्वीन्द्रियत्वेऽपि सैवेत्यर्थः । 'तेसु चेव चउसु'ति तेष्वेव चतुर्षु गमेषु प्रथमद्वितीयचतु पञ्चमसंज्ञेषु, 'सेसेसु पंचसु 'ति शेषेषु पञ्चसु तृतीयपष्टसप्तमाष्टमनवमगमेषु ' एवं 'ति यथा पृथ्वीकायिकेन सह द्वीन्द्रियस्य संवेध उक्तः एवमप्तेजोवायु वनस्पतिद्वित्रिचतुरिन्द्रियैः सह संवेधो वाच्यः, तदेवाह चतुर्षु प्रागुक्तेषु गमेषूत्कर्षतो भवादेशेन सङ्ख्येयाभवाः, पञ्चसु तृतीयादिषु ८ भवाः, कालादेशेन च या यस्य स्थितिस्तत्संयोजनेन संवेधो वाच्यः । पञ्चेन्द्रिय तिर्यग रेस्सह द्वीन्द्रियस्य तथैव सर्वगमेषु ८ भवा वाच्याः || २४ शते सप्तदशः ॥
'ठिई संबे 'ति (नू. ७०९) स्थितिं त्रीन्द्रियेत्पित्सूनां पृथिव्यादीनामायुः संवेधं च त्रीन्द्रियोत्पित्सु पृथिव्यादीनां त्रीन्द्रियाणां च स्थितेः प्रयोगं जानीयात्, तदेव क्वचिदर्शयति- 'तेउकाइएसु'त्ति तेजस्कायिकैः सार्द्ध त्रीन्द्रियाणां स्थितिसंवेधस्तृतीयगमे प्रतीतः, उत्कर्षेण द्वे अष्टोत्तरे रात्रिंदिवशते, कथं ?, औधिकस्य तेजस्कायिकस्य चतुर्षु भवेषूत्कर्षेण त्र्यहोरात्रमानत्वात् ४ भव(चतुष्क )स्य द्वादशाहोरात्राणि, उत्कृष्टस्थितिश्च त्रीन्द्रियस्योत्कर्षतः चतुर्षु भवेषु ४९ दिनमानत्वेन ४ भव (चतुष्क )स्य शतं पण्णवत्यधिकं स्यात्, राशिद्वयमीलने चाष्टोत्तरे द्वे रात्रिंदिवशते स्वातामिति । 'बेईदिएहिं 'ति 'अडयालीसं'ति द्वीन्द्रियस्योत्कर्षतो
१२४ श० १६-१७ १८ उद्दे.
~ 239~
0000000000
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः