________________
आगम
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [२४], वर्ग , अंतर्-शतक H, उद्देशक [१-२४], मूलं [६९३-७१५] + गाथा
(०५)
प्रत
श्रीभग० लघुवृत्ती
सूत्रांक [६९३७१५]
गाथा
वाससयसहस्सं'ति द्वाविंशतेवर्षसहस्राणामष्टामिर्भवग्रहणैर्गुणने ७६ वर्षसहस्राधिकं वर्षलक्षं स्यादिति १७६०००, चतुर्थे गमे २४ श. | 'तिषिण लेसाओ'ति जघन्यस्थितिवेषु देवो नोत्पद्यत इति तेषु तेजोलेश्या नास्ति, षष्ठे गमे 'उक्को० अट्ठासीइं वाससह-| स्साईति तत्र जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्व उत्पन्नत्वात् २२ वर्षसहस्राणि चतुर्गुणितानि अष्टाशीतिः स्युः४।। अन्तर्मुह नीति, ९ गमे 'जह० चोयालीसं'ति-२२ वर्षसहस्राणि भवद्वयात् द्विगुणितानि ४४ सहस्राणि स्युः । एवं पृथिवी| कायिकेभ्य उत्पादितः, अथासावेवापकायिकेभ्य उत्पाद्यते, 'जइ आउक्काइए'चि 'चउक्तभेदो'ति सूक्ष्मवादरयोः पर्याप्तकाप
यप्तिकभेदात् 'संवेहो तइयछट्टे'इत्यादि, तत्र भत्रादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीतः, उत्कृष्टत्वे यो | विशेषः स दयते, तत्र तृतीयादिषु सूत्रोक्तेषु पञ्चसु गमेघूत्कर्षतः संवेधोऽष्टौ भवग्रहणानि, प्राग्दर्शिताया अष्टभवग्रहणनिबन्धन-।
भूतायाः स्थितेस्तृतीयपष्ठसप्तमाष्टमेष्वेकपक्षे नवमे च उभयत्राप्युत्कृष्टस्थितेर्भावात् , 'सेसेसु चउसु गमएसुति शेषेषु चतुर्यु | गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेघूत्कर्षतोऽसङ्ख्यातानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात् , 'तइय गमए काला
देसेणं जहण्णेणं बाबीसं'ति पृथ्वीकायिकानामुत्पत्तिस्थानभूतानामुत्कृष्टस्थितित्वात् , 'अन्तोमुहत्त'त्ति अपकायिकस्य तत्रोत्पि|सोरौधिकत्येऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहर्तस्थितिकत्वात् , 'उको सोलसुत्तरंति इहोत्कृष्टस्थितिकत्वात् पृथ्वीका| यिनां च तेषां चतुर्णा भवानां भावात् तत्रोत्पित्सोश्चापकायिकखौधिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, | एवं च पृथ्वीकायिकस्य द्वाविंशतेवर्षसहस्राणां सप्तानां च सहस्राणामप्कायसत्कानां चतुर्गुणने ८८०००, २८००० मीलने च। | ११६०००, 'छडे गमए' इत्यादि, षष्ठगमे हि अप्कायो जघन्यस्थितिक उत्कृष्टस्थितिपृथ्वीकायिकेत्पद्यते इत्यन्तर्मुहूर्तस्य वर्षस-10
दीप
अनुक्रम [८३५८६०]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
~233