SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६९३ ७१५] गाथा दीप अनुक्रम [८३५ ८६०] श्रीभग० लघुवृत्तौ KCJCCDCJIGJI U “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१-२४] मूलं [६९३-७१५] + गाथा अथ चतुर्विंशतितममारभ्यते तदुद्देशकद्वारसङ्ग्रहगाथेयम्- 'उबवाय'त्ति (४९०-९१) नारकादयः कुत उत्पद्यन्ते इत्युत्पादो वाच्यः १ 'परीमाणं ति ये नारकादिवृत्पत्स्यन्ते तेषां स्वकाये उत्पद्यमानानां परिमाणं वाच्यं २ 'संघयण'ति तेषामेव नारकादिपूत्पित्सूनां संहननं वाच्यं ३ 'उचत्तं त्ति नरकादिषु यायिनामवगाहनाप्रमाणं वाच्यं ४, एवं संस्थानाद्यपि ज्ञेयं ५, 'अणुबंध त्ति विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानं 'कायसंवेहो'त्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भवं तत्रैवागमनं । अधारब्धशतोदेशकपरिज्ञानगाथामाह- 'जीवपदे' त्यादि (९२) इयं गाथा प्रागुक्तद्वारगाथाद्वयादादौ क्वचिद् दृश्यते, तत्र प्रथमोदेशको व्याख्यायते तत्र च कार्यसंवेधद्वारे 'से णं भंते! पज्जते असण्णीत्यादि (सू. ६९३) 'भवादेसेणं'ति भवप्रकारेण 'दो भवग्गहणाई'ति एकत्रासंज्ञी १ द्वितीये नारकः २, ततो निर्गतः सन् अनन्तरतया संज्ञित्वमेव लभते, न पुनरसंज्ञित्वमिति, 'कालायसेणं'ति कालप्रकारेण, कालत इत्यर्थः, नारकाणां १० वर्षसहस्रा स्थितिर्जघन्या, सा चासंज्ञिभवसत्कजघन्यान्तर्मुहूर्त्ताधिका, 'उक्को सेणं'ति इह पल्योपमासरूयेयभागः प्राग्भवासंज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटी चासंयुत्कृष्टायुष्करूपेति, एवमेते सामान्येषु रत्नप्रभानारके पूत्पित्सवोऽसंज्ञिनः प्रोक्तो दण्डकः प्रथमः । अर्थ जघन्यस्थितिषु तेषूत्पित्संस्तान्निरूपयन्नाह 'पज्जन्ते'त्यादि, सर्व चेदं प्रतीतार्थमेव, २ दण्डकः, उत्कृष्टस्थितिषु रत्नप्रभानार के पूस्पित्सावपि वाच्यः ३, एवमेते त्रयो गमा निर्विशेषणमसंज्ञिनमाश्रित्योक्ताः, एवमेते एवं तं पर्याप्तासंज्ञिनं जघन्यस्थितिक ३. मुत्कृष्टस्थितिकं ३ चाश्रित्य वाच्याः, तदेवमेते ९ गमाः तत्र जघन्यस्थितिपर्याप्तासंज्ञिनमाश्रित्य ९, सामान्यनारकगम उच्यते 'जहणणे' त्यादि 'आउं उज्झबसाणा अणुबंधो यत्ति आयुरन्तर्मुहूर्त्तमेव, जघन्यस्थितेरसंज्ञिनोऽधिकृतत्वात्, अध्यवसायस्थानान्य प्रशस्तान्येवान्तर्मुहूर्त्तस्थितिकत्वात्, दीर्घ २४ श० |१ उद्देशः ~ 224~ ॥२५५॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः ... अत्र शतक - २४ आरभ्यते |
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy