________________
आगम
(०५)
प्रत
सूत्रांक
[६६२
६८८]
गाथा
दीप
अनुक्रम
[७७९
८०५]
श्रीभगः लघुवृत्तौ ।
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२
शतक [२०], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ६६२-६८८] + गाथा
स्तिकायस्थाभिवचनानि, नामानीत्यर्थः । 'अधम्मे' त्ति धर्मविपरीतोऽधर्मो - जीवपुद्गलानां स्थित्युपष्टम्भकारी, शेषं प्राग्वत्; 'नर्भ'त्ति न भाष्यत इति नभः, 'समे'त्ति निम्नोन्नतत्वाभावात्, 'विसम'त्ति दुर्गमत्वाद्वियमं 'खहे' त्ति खनने भ्रुवो हनने चत्यागे यत्स्यात्तत्वहं 'विह'त्ति विशेषेण हीयते -त्यज्यते तदिति विहायः 'बी'ति विवेचनाद्विविक्ततास्वभावत्वात् 'विवर'त्ति विगतवरणतया विवरं 'अंबर' न्ति अम्बेव मातेव जननसाधर्म्यात् अम्बा-जलं तस्य राणाद्-दानान्निरुक्तितोऽबरं 'अंबरसे' ति अम्बा प्रागुक्तयुक्तया जलं तद्रूपो रसो यसात्तदम्बरसं 'छिट्टे'ति छिद्रः छेदनस्यास्तित्वात् छिद्रमिति, 'सुसिरे'ति शुषेः-शोषस्य दानाच्छुषिरं 'मरगे 'ति पथिरूपत्वान्मार्गः, 'विमुह'त्ति मुखादेरभावाद्विमुखं, 'अहे'त्ति अहयते गम्यते अनेनेति अहः, 'एवं विग्रहेत्ति स एव विशिष्टो व्यहः, 'वोमो'त्ति विशेषेणावनात् 'वोमभागणे'त्ति विश्वस्याश्रयणाद्भाजनं 'अंत लिक्खे'त्ति अन्तः - मध्ये ईक्षा- दर्शनं यस्य तदन्तरीक्षं 'सामे'त्ति श्यामं 'उवासंतरे'त्ति अवकाशरूपमन्तरं अवकाशान्तरं अगमं गमनक्रियारहितत्वात् 'बेयाइ'त्ति वेदरूपत्वात् 'चेयाइ'त्ति चेता पुद्गलानां चयकारी 'जेय'त्ति जेता कर्मरिपूणां 'आय'त्ति आत्मा सततगामित्वात् 'रंगणे'ति रङ्गणं रागः तद्योगाद्रंगणः, 'हिंडए' त्ति हिण्डकत्वेन हिण्डकः, गमनशील इत्यर्थः, 'पोग्गल' त्ति पूरणाद् गलनाच्च वपुरादीनामिति पुद्गलाः, 'माणव'त्ति मा निषेधे नवः प्रत्ययो मानवः अनादित्वात्, पुराण इत्यर्थः, 'कत्त'त्ति कर्त्ता कर्मणां विकर्त्ता विशेषतो विच्छेदकः कर्मणां 'जए' त्ति अतिशयगमनाञ्जगत् जननाजन्तुः 'जोणी 'त्ति योनिरन्येषामुत्पादकत्वात् 'सयंभु'त्ति स्वयंभवनात् स्वयंभूः 'ससरीर'त्ति सह शरीरेणेति सशरीरी 'नायए' त्ति नायकः कर्मणां नेता 'अंत ॥२४७॥ रप्पत्ति अन्तः- मध्यरूप आत्मा, न शरीररूप इत्यन्तरात्मेति ।। २० शते द्वितीयः ॥
२० श०
२ उद्देशः
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
~ 208~