________________
आगम
(०५)
प्रत
सूत्रांक
[६१७
६४८]
गाथा
दीप अनुक्रम
[७२१
७५७]
श्रीभग० लघुवृत्तौ
EIJCKKCCGG
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२
शतक [१८], वर्ग [-] अंतर- शतक [-] उद्देशक [१-१०], मूलं [ ६१७-६४८ ] + गाथा
करणात् स्याचरमः स्यादचरमः इति दृश्यं तत्राभिनिबोधिकादि ज्ञानं यः केवलज्ञानप्राप्या पुनरपि न लप्स्यते स चरम, अन्यस्त्वचरमः, 'जस्स जं अस्थि'त्ति यस्य जीवनारकादेर्यदामिनिबोधिकाद्यस्ति तस्य तद्वाच्यं तच प्रतीतमेव, 'केवलि' त्ति केवलज्ञानी चरमो वाच्यः, 'अण्णाणी'ति अज्ञानी सभेदः स्याच्चरमः स्यादचरमः, योऽज्ञानं पुनर्न लप्स्यते स चरमः, यस्त्वभव्यो ज्ञानं न लप्स्यते असावचरमः एवं यत्र यत्राहारका तिदेशः तत्र स्याश्चरमः स्यादचरम इति वाच्यं शेषमध्यनयैव दिशाऽभ्यूयं । अथ चरमाचरमलक्षणगाथामाह-'जो जं पाविहि'त्ति(*८०) यो जीवनारकादिर्यत् जीवत्वनारकादिकमप्रतिपतितं वा प्राप्स्यति- लप्स्यते पुनः पुनर्भावं स तेन भावेन तद्भावापेक्षयाऽचरमः स्यात्, तथाऽत्यन्त वियोगः - सर्वथा विरहो यस्य जीवादेर्येन भावेन स तेनेति शेषः चरमः स्यादिति ॥। १८ शते प्रथमः ॥
'निगम पढमासणि 'ति (सू. ६१८) नैगमा वाणिज्यकास्तेषु प्रथमासनिको वृद्धः, 'कज्जेसुति गृहकरणखजनसन्मानादिकृत्येषु 'कारणेसु'त्ति कृषिवाणिज्यादिहेतुषु 'कोहुंबे सु'त्ति कौटुम्बिकेषु सम्बन्धिजनेषु यथा राजप्रभीये, तच्चैवम् मंतेसु गुज्झेसु रहस्सेसु ववहारेसु निच्छएस आपुच्छणिजे ' इत्यादि, मन्त्रेषु आलोचेषु गुह्येषु लञ्जनीयव्यवहारगोपनेषु रहस्पेषु - एकान्त योग्येषु आप्रच्छनीयः प्रष्टव्य इति गम्यं ॥ १८ शते द्वितीयः ॥
'मंडियपुत्ते जाव' ति (सृ. ६१९) यावत्करणात् पगइउवसंते पयणुकोहमाणमायालोभे इत्यादि दृश्यं, इह पृथिव्यम्वनस्पतीनामनन्तरभवे मानुषत्यप्राप्याऽन्तक्रिया सम्भवति, यथा मरुदेव्याः, न तेजोवायूनां तेषामानन्तर्येण मानुषत्वाप्राप्तेः, अतः पृथिव्यादित्रयस्यैवान्तक्रियामाश्रित्य 'से नूण'मित्यादिना प्रश्नः कृतो, न तेजोवायूनां । 'भावियप्पणो 'ति (सू. ६२०) भावि
१८ श०
२-३ उ.
~ 190~
||२३८ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः