SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६१७ ६४८] गाथा दीप अनुक्रम [७२१ ७५७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-२ शतक [१८], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ६१७-६४८] + गाथा श्रीभगः ॐ चरमे'त्ति यो नारकः सिद्धिं यास्यति स चरमः, अन्यस्त्वचरमः, पुनर्नरकगमनात्, एवं यावद्वैमानिकः, 'सिद्धे जहा जीवे 'त्ति लघुवृत्तौ अचरम इति, नहि सिद्धः सिद्धतया विनंक्ष्यतीति । 'जीवा णं'ति बहुत्वदण्डकः तादृगेव, आहारकद्वारे 'आहारए सम्वत्थ त्ति सर्वेषु जीवादिपदेषु 'सिय घरमे सिय अचरमेत्ति कश्चिचरमो यो निर्वास्यति, अन्यस्त्वचरमः । आहारकपदे ऽनाहारकत्वेन जीवः सिद्धश्वाचरमो वाच्यः, अनाहारकत्वस्य तदीयस्याशाश्वतत्वात् जीवश्वेह सिद्धावस्थ एव, 'सेसहाणेसु'ति नारकादिपदेषु 'जहा आहारउ ति स्याच्चरमः स्यादचरम इत्यर्थः, यो नारकादित्वेनानाहारकत्वं पुनर्न लप्स्यते स चरमः, यस्तु तत् लप्स्यतेऽसावचरमः, भव्यद्वारे 'भवसिद्धिउ'ति भव्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तेः, एतच्च सर्वेऽपि जीवा भवसिद्धिकाः सेत्स्यन्तीति वचःप्रामाण्यादित्युक्तं, 'अभवसिद्धिओ सव्वत्थे ति सर्वेषु जीवादिपदेषु 'नो चरम'त्ति अभव्यस्य भव्यत्वाभावात्, 'नोभव'त्ति उभयनिषेधवान् जीवपदे सिद्धिपदे च भवसिद्धिकवदचरमः, तस्य च सिद्धत्वात् सिद्धस्य सिद्धत्वप र्यायानपगमादिति, संज्ञिद्वारे संज्ञा 'जहाऽऽहारउ'ति संज्ञित्वेन स्याथरमः स्यादचरमः, एवमसंज्ञ्यपि, उभयनिषेधवां जीवः सिद्धश्वाचरमो मनुष्यस्तु चरमः, उभयनिषेधव तो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति । लेश्याद्वारे 'सले से 'ति 'जहा आहारओ'ति स्याच्चरमः स्यादचरमः, तत्र ये मुक्तिगामिनस्ते सलेश्यत्वस्य चरमाः अन्ये त्वचरमाः । दृष्टिद्वारे - 'सम्मदिट्ठी जहा अणाहारओ ति जीवस्सिद्धश्च सम्यग्दृष्टिरचरमः, यतो जीवस्य सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि, सिद्धस्य तु तन्न प्रतिपतत्येव, नारकादयस्तु स्याच्चरमाः, ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न लप्स्यन्ते ते चरमाः ये त्वन्यथा तेऽचरमाः, 'मिच्छदिडी जहा आहारओ'ति स्याचरमः स्यादचरमः, यो जीवो मुक्तिगामी स मिथ्यादृष्टित्वेन चरमः, CHILI SLIGO १८ शु० 188~ ॥२३७॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy