SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१७], वर्ग H, अंतर्-शतक H, उद्देशक [१-१७], मूलं [५९१-६१६] + गाथा (०५) प्रत श्रीभग० लघुत्ता vor 98 सूत्रांक [५९१६१६] गाथा चासनकरणस्य शक्यत्वान । अधान्ययूथिकमतमाह-'जस्स णं एगे पाणाएवि दंडे'त्ति (सू. ५९६) जस्स'त्ति येन देहिना एकप्राणिनि-एकत्रापि जीधे सापराधादौ पृथ्वीकायिकादौ वा, किं पुनर्बहुषु?, दण्डो-वधः, 'अणिक्वित्ते'त्ति अनिक्षिप्तः-अनु|ज्झितोऽप्रत्याख्यातः स्यात् स एकान्तबाल एव, न बालपण्डिताः, एकान्तबालत्वव्यपदेशनिबन्धनस्य सर्वप्राणिदण्डात्यागस्य भावादिति परमतं, स्वमतं तु एकप्राणिन्यपि येन दण्डपरिहारः कृतोऽसौ नैकान्तबालः, किं तर्हि ?, वालपण्डितो, विरत्यविरतिसद्भावेन मिश्रत्वात् तस्य, अथ प्रागुक्तयोः संयतपण्डितयोः शब्दतोऽर्थतश्चैक्येऽपि अस्ति कोऽपि विशेषः?, उच्यते, संयतत्वं क्रियाद्यपेक्ष पण्डितत्व बोधविशेषापेक्षं चेति । 'अपणउत्थिया णमित्यादि (सू. ५९७) प्राणातिपातादिषु वर्तमानस्य देहिनः 'अपणे जीवे'त्ति जीवति-प्राणान् धारयति इति जीवः, शरीरं प्रकृतिरित्यर्थः, स चान्यो-व्यतिरिक्तः, अन्यो जीवस्य-देहस्य सम्बन्धी अधिष्ठा| यकत्वादात्मा-जीवात्मा, पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात् , ततश्च शरीरस्य प्राणातिपातादिषु वत्तेमानस्य दृश्यमानत्वात् शरीरमेव तस्कर्त, न पुनरात्मा इत्येके, अन्ये त्याहुः-जीवतीति जीवो-नारकादिपर्यायः, जीवात्मा तु सर्पभेदानुगामि जीवद्रव्य, द्रव्यपर्याययोश्चान्यत्वं, तथाविधप्रतिभासभेदनिबन्धनत्वात् घटवत् पटात , तथाहि-द्रव्यमनुगताकारां बुद्धिं कुर्यात् पर्यायस्त्वननुगताकारामिति, अन्ये त्याहु:-अन्यो जीवः, अन्यश्च जीवात्मा-जीवस्थैव स्वरूपमिति, प्राणातिपातादिवि|चित्रक्रियाभिधानं चेह सर्वावस्थायां जीवजीवात्मनोभेदख्यापनार्थमिति परमतं, स्वमतं तु 'सच्चेव जीवे सञ्चेव जीवाय'त्ति स एव | जीवः-शरीरं स एव जीवात्मा, जीव इत्यर्थः, कथश्चिदिति गम्यं, न बन्योरत्यन्तं भेदः, अत्यन्तभेदे देहेन स्पृष्टस्यासंवेदनप्रसङ्गः । | देहकृतस्य च कर्मणो जन्मान्तरे वेदनाभावप्रसङ्गः, अन्यकृतस्यान्यसंवेदने च अकृताभ्यागमप्रसङ्गः, अत्यन्तमभेदे च परलोका दीप अनुक्रम [६९३ ७२०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: ~180
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy