________________
आगम
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१६], वर्ग , अंतर्-शतक H, उद्देशक [१-१४], मूलं [५६२-५९०] + गाथा
(०५)
प्रत
श्रीभग
१६.श.
लघवत्ता
८ उद्देश:
सूत्रांक
[५६२५९०]
चरमान्तयोः पवेन्द्रियेषु देवानाश्रित्य भङ्गत्रयं सम्भवति, अवेयकविमानेषु तु देवपश्चेन्द्रियगमागमाभावात द्वीन्द्रियादिष्वेष पञ्चेन्द्रियेष्वपि मध्यमभङ्गरहितं शेष भङ्गाद्वयं तयोः स्यादिति ।। चरमाधिकारादेव परमाणुखरूपमाह-'परमाणु' (सू. ५८५) इत्यादि, इदं च गमनसामर्थ्य परमाणोस्तथास्वभावत्वादिति मन्तब्यमिति । 'वासं वासइत्ति (सू. ५८६) वर्षों-वर्षति मेघो नो वा, |अचक्षुरालोके हि दृष्टिहस्तादिप्रसारणेन ज्ञायत इतिकृत्वा हस्तादिकं आकुञ्चयेद्वा प्रसारयेद्वा आदित एवेति । 'जीवाणं आहारो
वचिया पोग्गल'त्ति (स. ५८६) जीवानां जीवानुगता इत्यर्थः, 'आहारोपचिताः' आहारतया चयं-पुष्टिं गता इत्यर्थः, बोंदि|चिय'चि अव्यक्तावयवशरीररूपतया चिताः, 'कलेवर'ति व्यक्तावयववपुश्चिताः, एवमुन्टासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेनेदमुक्तं-जीवानुगामिखभावाः स्युः, ततश्च यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात् , 'पोग्गलामेव'ति पुद्गलानेव 'पप्पति आश्रित्य जीवानां 'अजीवाण यति पुद्गलानां गतिधर्मः, 'आहिजइति आख्यायते, इदमुक्तं स्यात्-पत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिः स्यात् , एवं चालोके नैव सन्ति जीवाः पुद्गलाच, तत्र जीवपुद्गलानां गति स्ति, | तदभावाचालोके देवो हस्ताद्याकुञ्चयितुं प्रसारयितुं च न प्रभुरिति ।। १६ शतेऽष्टमः॥ । 'जहेव चमरस्स'त्ति (सू . ५८८) यथा चमरस्य द्वितीयशताष्टमोद्देशकोक्तस्य सुधर्मसभास्वरूपं प्रोक्तं तथा बलेरपि वाच्यं, तच्च | तत एवाबसेयं, 'एवं पमाणं जहेव तिगिछिकूडस्तपति यथा द्वितीयशताष्टमोद्देशकोक्तचमरसत्कतिगिंछकूटाख्यगिरेः प्रमाणमुक्तं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं, एतदपि ततो ज्ञेयम् ,'तं चेव पमाणं'ति यत् प्रमाणं चमरसत्कतिगिंछकूटाख्योत्पातगियुपरिवर्तिनः प्रासादावसकस्य तदेव बलिसत्कस्यापि रुचकेन्द्राख्योत्पातगिर्युपरिवर्तिनस्तस्य, तदपि द्वितीयशतात् ज्ञेयं, 'सिंहा
गाथा
दीप अनुक्रम [६६०६९२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
~1764