________________
आगम
(०५)
प्रत
सूत्रांक
[ ५३९
५६१]
गाथा
दीप
अनुक्रम
[६३९
६५९ ]
श्रीभग०
लघुवृत्तौ
“भगवती" - अंगसूत्र-५ (मूलं + वृत्तिः) भाग-२
शतक [१५], वर्ग [-], अंतर् शतक [-] उद्देशक [-] मूलं [ ५३९-५६१] + गाथा
समुदायेन ॥ 'दाहवकंती' (स. ५५५) दाहोत्पच्या 'संवेणं'ति वल्करज्ज्या 'उर्दुमहत्ति अष्ठीव्यत निष्ठीव्यत 'आंकड़विकद्धि'ति आकर्षविकर्षिकां 'धिरीकरणडयाएं'ति प्राक्प्राप्तपूजासत्कारयोः स्थिरताहेतोर्यदिति, गोशालशरीरस्य विशिष्टपूजा न कुर्युः तदा लोक एवं ज्ञास्यति नायं जिनो बभूव न च जिनशिष्या इत्येवमस्थिरौ पूजाप्रत्कारौ स्यातामिति तयोः स्थिरीक रणार्थं अवगुणं अपावृण्वन्ति 'मालुयाकच्छए'ति (सु. ५५७) मालुका नाम एकास्थिका वृक्षविशेषाः तेषां यंत् कक्ष - गहन तत्तथा, 'विउले'ति वपुर्व्यापकत्वात् 'रोगार्थ के 'ति रोगः- पीडाकारी स चासावातङ्कथं व्याधिरिति रोगातङ्कः, 'उनले 'ति उज्ज्वलः तीव्रपीडाकृत् 'दुरहियास 'त्ति दुरधिमाः, सोढुमशक्य इति, 'दाहवकंतीए ति दाहो व्युत्क्रान्तः- उत्पन्नो यस्य सः स्वार्थिके कप्रत्यये दाहव्युत्क्रान्तिकः 'अवियाई' ति अपि चेति समुच्चये 'आई'ति वाक्यालङ्कारे 'लोहियवचाई' ति लोहितवचस्वपि - रुधिररूपपुरीषाण्यपि करोति, किमनेन पीडावर्णनेनेति ?,'चाउञ्वण्णं' ति चातुर्वण्यं ब्राह्मणादिलोकः, 'झाणंतरियाएं'त्ति एकस्य ध्यानस्य समाप्तिरन्यस्थानारम्भ इत्येषा ध्यानान्तरिका तस्यां 'मणो माणसित्ति मनस्येव न बहिर्वचनादिभिः अप्रकाशि तत्वात् यन्मानसिकं दुःखं तन्मनोमासिकं तेन, 'दुवे कवोया' इत्यादि श्रूयमाणमेवार्थं केचिन्मन्यन्ते, अन्ये त्वाहुः कपोतः-पंक्षि| विशेषः तद्वये फले वर्णसाधर्म्यात् ते कपोते- कूष्माण्डे ह्रस्वे कपोते कपोतके ते च ते शरीरे वनस्पतिजीव देहत्वात् कपोतकशरीरे अथवा कपोतकशरीरे इव धूसरे वर्णसाधर्म्याद्ये ते कपोतकशरीरे - कूष्माण्डफले एव ते उपस्कृते 'तेहिं नो अहो' ति बहुपापत्वात् 'परियासि 'त्ति परिवासितं ह्यस्तनमित्यर्थः, 'मज्जारकडे 'ति इत्यादि, केचित् श्रूयमाणमेवार्थं मन्यन्ते, अन्ये त्वाहु:- मार्जारो वायुविशेषः तदुपशमनाय कृतं मार्जारकृतं, अपरे त्वाहु:- मार्जारो बिरालकारूयो वनस्पतिभेदः तेन कृतं भावितं यत्तत्तथा, किं
१५. श०
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
~ 159~