________________
आगम
(०५)
प्रत सूत्रांक
[ ४६९
४९८]
गाथा
दीप अनुक्रम [५६३
५९३]
श्रीभग०
लघुवृत्तौ
XCJCICDG
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२
शतक [१३], वर्ग [-] अंतर- शतक [-] उद्देशक [१-१०], मूलं [ ४६९ ४९८ ] + गाथा
'छउमत्थिय'त्ति (सू.४९८) छद्मस्थसमुद्घातः 'हन हिंसागत्योः " हननं घातः, सम्-एकीभावे, उत्-प्राबल्ये, ततच एकीभावेन प्राबल्येन च घातः समुद्घातः, अथ वेन सहैकी भावगमनं १, उच्यते, यदाऽऽत्मा वेदनादिसमुद्धातं गतः तदा वेदनाद्यनुभवज्ञानेन परिणमित एव स्यादिति वेदनाद्यनुभवज्ञानेन सहैकीभावः, प्राबल्येन घातः कथम् ?, उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् | वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यान् उदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैस्सह संश्लिष्टान् | शातयतीत्यर्थः, अतः प्राबल्येन घात इति, अयं च पड्विध इति, तत्र 'वेयणासमुग्धाए 'ति एकः 'छाउ मत्थिए' त्यादिरतिदेशः 'जहा पन्नवणाएं' ति इह पट्त्रिंशत्तमपदे इति शेषः, ते च शेषाः पञ्चैव, 'कसायसमुग्धाए २ मारणं तियसमुग्धाएं ३ वेडब्बियसमुग्धाए १ तेयगसमुग्धाएं ५ आहारसमुग्धाए' ति, तत्र वेदनासमुद्घातः असद्वेद्यकर्माश्रयः कपायसमु० सकपायचारित्रमोहनीयकर्माश्रयः मारणान्तिकसमु० अन्तर्मुहूर्त्तशेषायुः कर्माश्रयः वैकुर्विकाहार कतैजससमुद्घाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमु० समुद्धतः कषायपुद्गलशातं मारणान्तिकसमु० समुद्धत आयुःकर्मपुद्गलशातं वैकुर्विकसमु० समुद्धतस्तु जीवप्रदेशान् वपुर्वहिर्निष्काश्य शरीर विष्कम्भवाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, सूक्ष्मां श्रादत्ते, यथोक्तं कल्पे 'वेउन्धियसमुग्धाएणं समोहन्नइ समोहणित्ता संखेआई जोयणाई दंडं निसरड २ अहाबायरे पुग्गले परिसाडेइ अहासुहुमे पोग्गले परियायइ, एवं तेजसाहारकसमुद्घातावप्याख्येयाविति । त्रयोदशशते दशमः ॥
इतिश्रीतपागच्छनायक श्रीलक्ष्मीसागरसूरि शिष्य सुमति साधुसूरिशिष्य श्री हेमविमलसूरिविजयराज्ये
१४ श०
१. उद्देशः
~124~
॥२०५॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
... अत्र शतक १३, उद्देशकः १० एव वर्तते. मूल संपादने यत् शतक-१४ उद्देशकः १ मुद्रितं, तत् मुद्रणदोष: ज्ञातव्य: