SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१३], वर्ग H, अंतर्-शतक H, उद्देशक [१-१०], मूलं [४६९-४९८] + गाथा (०५) प्रत उद्देशः सूत्रांक [४६९४९८] गाथा कायः, औदारिकशरीरमपेक्ष्य, अजीवे'त्ति अजीवोऽपि कायः उच्छ्वासादिरहितः स्यात् कार्मणवपुरपेक्ष्य, 'जीवाणवि काए'त्ति जीवानां सम्बन्धी कायः शरीरं स्यात, अजीवाणवि'त्ति अजीवानामपि स्थापनार्हदादीनां कायः-शरीरं स्यात्, शरीराकार इत्यर्थः, 'पुब्बिपिकाए'त्ति जीवसम्बन्धकालात् पूर्वमपि कायः स्यात् ,यथा भविष्यञ्जीवसम्बन्धं मृतद१रशरीरं 'काइजमाणेऽवि काए'त्ति जीवेन चीयमानोऽपि कायः स्यात् यथा जीवच्छरीरं, कायसमयो-जीवेन कायस्य कायताकरणलक्षणस्तं व्यतिक्रान्तो, यस्स तथा, सोऽपि काय एव मृतकलेवरवत् , 'पुर्दिवपि काए भिजईत्ति जीवेन कायतया ग्रहणसमयात् पूर्वमपि कायो मधुघटादिन्यायेन | मद्रव्यकायो भियते, प्रतिक्षणं पुद्गलचयापचयभावात् , 'काइजमाणे पति जीवेन कायीक्रियमाणोऽपि कायो भियते सिकताक णमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटभावात् 'कायसमयत्ति' कायसमयव्यतिक्रान्तस्य च कायता भूतभावतया घृतघटा|दित्यायेन, भेदश्च पुद्गलाना तत्खभावतयेति, अथ कायस्यैव भेदानाह-'ओरालिए' औदारिकवपुरेव पुद्गलस्कन्धरूपत्वात् उपचीयमानत्वात् औदारिककायः, अयं च पर्याप्तकस्यैवेति, 'ओरालियमीसए'त्ति औदारिकमिश्रः कायः कार्मणेन, अपर्याप्तकस्याय, 'वेउम्बिए'त्ति वैक्रियः पर्याप्तकस्य देवादेः,वैक्रियमिश्रः कार्मणेन, अयं चासम्पूर्णवैक्रियशरीरस्य देवादेः 'आहारए'त्ति आहारकः आहारकशरीरनिर्वृतौ 'आहारमीस'त्ति आहारकपरित्यागेनौदारिककरणायोद्यतस्य आहारकमिश्रः स्यात् , मिश्रता पुन रौदारिकेणेति, कम्मए'त्ति विग्रहगतौ केवलिसमुद्घाते वा कार्मणः स्वादिति ॥ 'आवीइमरणे'त्ति (सू..४९५) आ समन्ताद्वीचयः | मप्रतिसमयमनुभूयमानायुपोऽपरापरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणा अवस्था यस्मिन् तदावीचिकं 'ओहिमरणं ति अवधिः-मर्यादा, ततश्चावधिना मरणं अवधिमरणं, यानि हि नारकादिभवनिवन्धनतया आयुःकर्मदलिकान्यनुभूय म्रियते यदि | दीप अनुक्रम [५६३५९३] ॥२०॥ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: ~120
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy