SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम (०५) भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१ शतक [१], वर्ग B, अंतर-शतक, उद्देशक [२], मूलं [२४-२५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: प्रत सूत्रांक श्रीभगबतीसूत्रम् [२४-२७] दीप अनुक्रम [३१-३४] अनादावतीतकाले 'आदिहस्स'त्ति आदिष्टस्य-अमुष्य नारकादेरित्येवं विशेषितस्य कतिविधः संसारत्ति-संसारसंस्थानकाला, अमुष्य जीवस्य अतीतकाले कस्यां गताववस्थानमासीदिति प्रश्नः, गौतम ! चतुर्विधो, नारकादिगतिभेदात, नारकानुगतसंसाराव- १ शतके | खानकालखिधा-शून्यकालः१ अशून्यकालः २ मिश्रकालश्च ३, तिरश्चां शून्यकालो नास्ति, तेषां द्वौ भेदौ स्तः, मनुष्यदेवानां तIR२ उद्देशः त्रिविधोऽप्यस्ति, आह च-"सुनो सुनो मीसो तिविहो संसारचिट्ठणाकालो । तिरियाण सुन्नबज्जो सेसाणं होइ तिविहोऽवि ॥१॥" | तत्राशून्यकालस्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने सतीतरौ सुज्ञानौ स्थाता, तत्र वर्तमानकाले सप्तपृथिवीषु ये नारका वर्तन्ते | तेषां मध्याद्यावन्न कश्चिदुद्वर्तते न वाऽन्य उत्पद्यते तावन्मात्रा एव ते आसते स कालस्तानारकानङ्गीकृत्याशून्य इति पठ्यते, आह च-"आइट्ठसमइयाणं नेरइयाणं न जाव एकोऽवि । उबट्टइ अन्नो वा उववञ्जइ सो असुनो उ ॥२॥" मिश्रकालस्तु तेषामेव नारपाकाणां मध्यादेकादय उद्वत्ताः यावदेकोऽपि शेषस्तावन्मिश्रकालः, शून्यकालस्तु यदा त एवादिष्टसमयिका नारकाः सामस्त्येनो-IN द्वृत्ताः कोऽपि तेषां शेषोऽस्ति स शून्यकाल इति, आह च-"उबट्टे एकंमिबि ता मीसो धरइ जाव एकोऽवि। निल्लेविएहिं सब्वेहिं| वट्टमाणेहिं सुन्नो उ ॥३॥" इदं मिश्रनारकसंसारावस्थानकालसूत्रं न तमेव नारकभवमङ्गीकृत्य प्रवृत्तं, अपि तु वार्त्तमानिकनारकजीवानां गत्यन्तरगमनेन तत्रैवोत्पत्तिमाश्रित्योक्तं, यदि पुनस्तमेव नारकभवमङ्गीकृत्येदं सत्रं स्यात् तदाऽशून्यकालापेक्षया | मिश्रकालानन्तगुणता सूत्रोक्ता न स्यात् , आह च-"एवं ते पुण जीवे पडुच्च सुत्तं न तम्भवं चेव । जइ होज तब्भवं तो अणंतकालो न संभवइ ॥४॥" कस्मादिति चेत् , उच्यते, ये वार्त्तमानिका नारकाः ते स्वायुष्ककालस्यान्ते उद्वर्त्तन्ते, असङ्ख्यातमेव च तदायुः, अत उत्कर्षतो द्वादश मौहर्निकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वाभावप्रसङ्गादिति,आह च-"किं कारणमादिट्ठानेरइया? जे ~46~
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy