________________
आगम
(०५)
भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१
शतक [१], वर्ग B, अंतर्-शतक. उद्देशक [२], मूलं [२१-२२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
प्रत सूत्रांक [२१-२२]
श्रीभगबतीसूत्रम्
शतके २ उद्देशः
गाथा
दीप अनुक्रम [२८-३०]
भावना चैवं-पृथ्वीकायिकानामगुलासंख्येयभागमात्रशरीरत्वेऽप्यल्पवपुस्त्वमितरचेतः प्रज्ञापनादवसेयं, यतः 'पुढविकाइए पुढवि-| काइयस्स ओगाहणट्ठयाए चउठाणवडिए'त्ति, ते च महाशरीरा लोमाहारतो वहुतरान् पुद्गलानाहारयन्ति, उच्छसन्ति अभीक्ष्णं महा- शरीरत्वादेव, अल्पशरीराणामल्पाहारोच्छ्वासत्वमल्पशरीरत्वादेव, कादाचित्कं तयोः पर्याप्तकेतरावस्थापेक्षमवसेयं, तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथ्वीकायिकानां कर्मवर्णलेश्याविभागो नारकवद्वाच्यः, वेदनाक्रिययोस्तु नानात्वमित्याह-पुढविकाइयाणं सब्वे समवेयणत्ति, 'असण्णि'त्ति असंझिनो मिथ्यादृष्टयोऽमनस्का वा 'असण्णिभूयं ति असंज्ञिभूतां, असंज्ञिनां या जायते तामित्यर्थः, एतदेव व्यनक्ति-'अणिदाए'त्ति अनिर्धारणया वेदनां वेदयन्ति, वेदनामनुभवन्तोऽपि न पूर्वोपाचाशुभकर्मपरिणतिरियमिति मिथ्यादृष्टित्वादवगच्छन्ति, अमनस्कत्वाद्वा मत्तमातादिवदिति भावना, 'माईमिच्छत्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह-"उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो । सढसीलो य ससल्लो तिरियाउं बंधए जीवो ॥१॥" ततस्ते मायिन उच्यन्ते, अथवा इह माया अनन्तानुबन्धिकषायोपलक्षणमतोऽनन्तानुबन्धिकषायोदयवन्तोऽत एव मिथ्यादृष्टयो-मिथ्यात्वोदयबतिन इति, ताणं णियइयाओंत्ति तेषां पृथ्वीकायिकानां नियताः पञ्चैव, नतु त्रिप्रभृतयः इति निगमनं, 'जाब चउरिंदिय'त्ति इह महाशरीरत्वमितरच्च स्वस्वावगाहनानुसारेणावसेयं, आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति । 'पंचिंदियतिरिक्खजोणिया जहाणेरइ'त्ति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णमाहारयन्त्युच्चसन्ति चेति यदुच्यते तत् संख्यातवर्षायुषोऽपेक्ष्य, नासंख्यातवर्षायुषः, तेषां प्रक्षेपाहारस्य पष्ठस्योपरि प्रतिपादितत्वात् , अल्पवपुषां यत् कादाचित्कं तदपर्याप्तकत्वे लोमाहारोच्वासयोरभवनेन पर्याप्तकत्वे च तद्भावेन ज्ञेयमिति,तथा कर्मसूत्रे यत् पूर्वोत्पन्नानामल्पकर्मत्वमितरेषां महाकर्मत्वं च (तत्) तद्भववेद्यायुष्कादिकर्मापेक्षया,
~42~