SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (०५) भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१ शतक [८], वर्ग B, अंतर्-शतक , उद्देशक [९], मूलं [३४४-३५१] + गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: प्रत सूत्रांक [३४४३५१] लघवृत्ती गाथा: दीप अनुक्रम [४२२४२९] श्रीभग सन्तकायिकानाश्रित्य सूत्रं, तत्रानन्तकायिकाः सङ्ख्यातगुणजीविता एव, ते चायुष्कस्याबन्धकाः, तदेशबन्धकेभ्यस्सङ्ख्यातगुणा एव | ते स्युः, यद्येवं तदबन्धकास्सिद्धादयस्तन्मध्ये क्षिप्यन्ते, तथापि तेभ्यस्सङ्ख्यातगुणाएव ते, सिद्धाधवन्धकानामनन्तानामप्यनन्त-| कायिकायुर्वन्धकापेक्षया अनन्तभागत्वादिति, ननु चेदायुषोऽवन्धकास्संतो बन्धकास्स्युः तदा कथं न तेषां सर्ववन्धसम्भवः', उच्यते, नह्यायुःप्रकृतिरविद्यमाना सती तैर्निबध्यते औदारिकादिशरीरबदिति न सर्वबन्धसम्भवः ।। प्रकारान्तरेणौदारिकादि चिन्तयन्नाह'नो बंधए'ति न घेकसमये औदारिकवैक्रिययोर्बन्धो विद्यत इति हेतोर्न बन्धकः, एवमाहारकस्य, तेजसस्य पुनः सदाऽविरहितत्वात् बन्धको देशबन्धेन, सर्ववन्धव तस्य नास्त्येव, एवं कार्मणवपुषो वाच्यमिति, एवमौदारिकसर्वबन्धमाश्रित्य शेषाणां बन्धचिन्तना|र्थोऽनन्तरं दण्डक उक्तः । अथौदारिकस्यैव देशवन्धमाश्रित्यान्यमाह-'जस्स ण'मित्यादि । अथ वैक्रियस्य सर्वबन्धमाश्रित्य शेषाणां | बन्धचिन्तनार्थोऽन्यो दण्डकस्तत्र 'तेयगकम्मगस्स जहे-'त्यादि, यथौदारिकशरीरसर्वबन्धकस्य तेजसकार्मणयोर्देशवन्धकत्वमुक्तमेवं | वैक्रियशरीरसर्वबन्धकस्यापि तयोर्देशयन्धकत्वं वाच्यमिति भावः,वैक्रियदेशबन्धदण्डक आहारकस्य सर्ववन्धदेशबन्धकदण्डकद्वयं चेति त्रयं सुगममेव, तैजसदेशबन्धके तु बन्ध एव अबन्ध एव वा, तैजसदेशबन्धक औदारिकवपुपो बन्धकः स्यादवन्धको वा, तत्र विग्रहे वर्तमानः अबन्धकः अविग्रहस्थश्च बन्धकः, स चोत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धकः द्वितीयादौ तु देशबन्धक इति, एवं कार्मणशरीरदेशबन्धदण्डकेपि वाच्यमिति । अथौदारिकादिशरीरदेशवन्धकादीनामल्पबहुत्वमाह-तत्र सर्व स्तोका आहारकशरीरस्य सर्वचन्धकाः, यस्मात्ते चतुर्दशपूर्वधरास्तथाविधप्रयोजनवन्त एव कुर्वन्ति, सर्वबन्धकालश्च समयमेवेति, तस्यैव देशबन्धकाः सङ्ख्येय| गुणाः, देशबन्धकालस्य बहुत्वात् , क्रियस्य सर्ववन्धका असङ्ख्येयगुणाः, तेषां तेभ्योऽसङ्ख्यातगुणत्वात् , तदैव देशबन्धका १४७॥ ~307~
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy