SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३४४ ३५१] गाथा: दीप अनुक्रम [४२२ ४२९] भाग-1 “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) भाग - १ शतक [८], वर्ग [-] अंतर- शतक [-] उद्देशक [९], मूलं [ ३४४-३५१] + गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभग० लघुवृत्तौ तस्यापर्याप्तकस्य वैक्रियशक्तिर्न स्याद् अतोऽन्तर्मुहूर्त्तनासौ पर्याप्तको भूत्वा वैक्रियं कुर्यात्, तत्र प्रथमसमये सर्वबन्धको जातः, एवं सर्वबन्धान्तरमन्तर्मुहूर्त्तमिति, 'उक्कोसेणं पलिओवमस्स असंखिज्जइभागं ति, कथं ?, वायुरौदारिकशरीरी वैक्रियं गतः, तत्प्रथमसमये च सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतः, ततः परमौदा रिकशरीरिषु वायुषु पल्योपमासंख्येयभागमतिवाह्यावंश्यं वैक्रियं कुर्यात्, तत्र प्रथमसमये सर्वबन्धकः, एवं सर्वबन्धयोर्यथोक्तमन्तरं स्यात्, 'एवं देसबंधंतरंपि'त्ति अस्य भावना प्रांगिवेति, 'तिरिक्खजोणिय पंचिदित्ति, कथं १, पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः, तत्र प्रथमसमये सर्वबन्धकः, ततः परं देशबन्धकोऽन्तर्मुहूर्त्तमात्रं, तत औदारिकस्य सर्वबन्धको भूत्वा समयं देशबन्धको जातः पुनरपि इयं श्रद्धोत्पन्ना, (ततो) वैक्रियं कुर्वतः प्रथमसमये सर्वबन्धः, एवं सर्वबन्धयोर्यथोक्तमन्तरं स्यात्, 'उक्को० पुव्वको डिपुहुत्तं'ति, कथं?, पूर्वकोव्यायुः पश्चेन्द्रियतिर्यक्ष्वेवोत्पन्नः पूर्वजन्मना सह सप्ताष्टौ वा वारान् ततः सप्तमे च भवे वैक्रियं गतः, तत्र प्रथमसमये सर्वबन्धं कृत्वा देशबन्धं कुर्याद्, एवं सर्वबन्धयोरुत्कृष्टयोर्यथोक्तमन्तरं स्यात्, 'एवं देसबंधंतरंपि'ति अस्य भावना सर्वबन्धान्तरोक्तानुसारेण कर्त्तव्येति, वैक्रियव पुर्वन्धान्तरमेव प्रकारान्तरेणाह - 'जीवस्स णं भंते । रयण'त्ति, जह० अंतोमुहुत्तं', कथं १, वायुर्वक्रियवपुः श्रितः, तत्र प्रथमसमये सर्वबन्धको भूत्वा मृतः, ततः पृथिवीकायिकेषूत्पन्नः, तत्रापि क्षुल्लकभवमात्रं स्थित्वा पुनर्वायुर्जातः, तत्रापि कतिपयान् क्षुल्लकभवान् स्थित्वा वैक्रियं गतः, तत्र प्रथमसमये सर्वबन्धको जातः, ततो वैक्रियस्य सर्वबन्धयोरन्तरं बहवः क्षुल्लकभवाः, ते च बहवोऽप्यन्तर्मुहूर्त्तं, अन्तर्मुहूर्त्ते बहूनां क्षुल्लकभवानां प्रतिपादितत्वात्, ततस्सर्वबन्धान्तरं यथोक्तं स्यात्, 'उक्को० अनंतकालं वर्णस्सइकालो' त्ति, कथं १, वायुर्वेक्रियशरीरीभवन् मृतो वनस्पत्यादिष्वनन्तं कालं स्थित्वा वैक्रियवपुश्च यदा लप्स्यते तदा यथोक्त ~302~ PHİCİGDİG HOG शतके ९ उद्देशः
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy