SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आगम (०५) भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१ शतक[८], वर्ग, अंतर्-शतक H, उद्देशक [६-८], मूलं [३३१-३४३] + गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: प्रत सूत्रांक [३३१ शतके ८ उद्देश ३४३] गाथा: दीप अनुक्रम [४०५४२१] श्रीभगाई स्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं ३ तथा धारणा गीतार्थसंविनेन द्रव्यायपेक्षया यत्रापराधे यथा लघुवृत्ती या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुङ्क्ते इति, वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणो शेषानुचितस्य प्रायश्चित्तपदानां प्रदर्शितानां धरणमिति ४, तथा जीत-द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवानुवृत्या संहननधृत्यादिहानिमवेक्ष्य यत् प्रायश्चि|चदानं, यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्वानुवर्तित इति ५ । आगमादीनां व्यापारणे उत्सर्गापवादावाह-'जहा सेनि 'यथेति यथाप्रकारः केवलादीनामन्यतमः 'से' तख व्यवहर्तुः स वा उक्तलक्षणो व्यवहारः 'तत्थति तत्र तेषु पश्चमुख्यग्यवहारेपु मध्ये तस्मिन् वा-प्रायश्चित्ततदानादिव्यवहारकाले व्यवहर्त्तव्ये वस्तुनि विषये आगम:-- केवलादिः 'सिय'ति स्वाद् भवेत् 'आगमेणं'ति आगमेन, तादृशेनेति शेषः, ववहार-प्रायश्चित्तदानादिकं व्यवहार प्रस्थापयेत्-प्रवर्तयेत् , न शेषैः, आगमेऽपि पविधे केवलेन, अवन्ध्यबोधत्वात् तस्य, तदभावे मनःपर्यायेण, एवं प्रधानतराभावे इत-IN | रेणागमेनेति, 'नो य से तत्थ'नि अथ नो-नैव चशब्दो यदिशब्दार्थः 'से' तस्य स वा तत्र-व्यवहर्तव्यादावागम: स्यात् तदा प्रायश्चित्तादिकं आगमंति नाम दद्यात् इत्यर्थः 'जहा से तस्थ सुपनि यथाप्रकारं 'से' तस्य 'तत्थेति तत्र-व्यवहर्तव्यादी | श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेत् , 'जहा जहा से'त्ति विशेष निगमनमिति, एतैर्व्यवहर्तुः किं फलं स्वादिति प्रश्नद्वारेणाह-'से किमाहुति अथ किं हे भदन्त ! आहुः-प्रतिपादयन्ति, के आगमबलिकाः, श्रमणा निर्ग्रन्थाः,'इचेय'ति इति| उक्तरूपं एतं-प्रत्यक्षरूपं व्यवहारं पञ्चविधं प्रायश्चित्तदानादिरूपं 'सम् ववहरमाणे'त्ति सम्यक् व्यवहरन् , प्रवर्तयन्नित्यर्थः, कथं सम्यगित्याह-यदा यदा यस्मिन् २ अवसरे यत्र २ प्रयोजने क्षेत्रे वा यो य उचितस्तं तमिति शेषः, तदा २ काले तस्मिन् २ ~281
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy