________________
आगम
(०५)
प्रत
सूत्रांक
[३३१
383]
गाथा:
दीप
अनुक्रम [४०५
२१]
भाग-1 “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [८], वर्ग [-] अंतर-शतक [-] उद्देशक [६-८] मूलं [ ३३१ ३४३] + गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभग०
लघुवृत्ती
DEMOG
समितिपरायणत्वेन सचेतन देश परिहारतोऽचेतन देशैर्ब्रजाम इत्यर्थः, 'एवं पदेसं पदेसेणं ति इत्यपि, नवरं देशो भूमेर्महत् खण्डं, प्रदेशस्तु लघुतरमिति । अथोक्तगुणायोगेन नास्माकमिवैषां गमनमस्तीत्यभिप्रायतः स्थ विराः यूयमेव पृथ्व्यादिकायाक्रमणतोऽसंयतत्वादिगुणा इति प्रतिपादनायान्ययूथिकान् प्रत्याहु:-'अम्हे णं अज्जो'ति, 'गइप्पवाय'ति गतिः प्रोद्यते प्ररूप्यते यत्र तद् गतिप्रवादं अथवा गतेः- गमनक्रियायाः प्रपातः प्रपतनं सम्भवः प्रयोगादिष्वर्थेषु वर्त्तनं गतिप्रपातः तत्प्रतिपादकमध्ययनं गतिप्रपातं तत् प्रज्ञापितवन्तो गतिविचारप्रस्तावादिति । अथ गतिप्रपातमेव गतिभेदतोऽभिधातुमेवाह - 'पओगगइ 'ति (स. ३३८) प्रयोगस्य - सत्यमनः प्रभृतिकस्य पञ्चदशविधा गतिः-प्रवृत्तिः प्रयोगगतिः, 'ततगई 'चि ततस्य-ग्रामनगरादिकं गन्तुं प्रवृत्तत्वे तदप्राप्तत्वेन तदन्तरालपथे वर्त्तमानतया प्रसारितक्रमतया विस्तारं गतस्य गतिस्ततगतिः, असिंध स्थाने इतः सूत्रादारभ्य प्रज्ञापनायां षोडशप्रयोगपदं ज्ञेयं, 'से तं विहायगई' एतत्सूत्रं यावद्वाच्यं एतदेवाह 'इत्तो' ति इतः प्रारब्धं तच्चैवम्- 'बंधणछेयणगई। उबवायगई विहायगई' तत्र बन्धनच्छेदन गतिः- बन्धनस्य कर्मणः छेदने-अभावे गतिः, जीवस्य शरीरात् जीवाच्छरीरस्य, मोक्षगतिरित्यर्थः उपपातगतिविधा क्षेत्र १ भव २ नोभव ३ भेदात् तत्र नरकगतिर्यनरदेव सिद्धानां यत् स्वक्षेत्रे उपपाताय-उत्पादाय गमनं सा क्षेत्रोपपातगतिः, या च नारकादीनामेव स्वभवे उपपातरूपा गतिस्सा भवोपपातगतिः, यच्च सिद्धपुद्गल योर्गमनमात्रं सा नोभवोपपातगतिः, विहायोगतिश्च स्पृशद्गत्यादिका अनेकविधेति ॥ अष्टमशते सप्तमोद्देशक विवरणम् ॥
(सू. ३३८) आचार्योऽर्थव्याख्याता १ उपाध्यायः सूत्रदाता २ स्थविरस्तु जाति १ श्रुत २ पर्यायैः ३, तत्र जात्या पष्टिवर्षजातः १ श्रुतस्थविरः समवायधरः २ पर्यायस्थविरो विंशतिवर्षपर्यायः ३ । 'गईणं'ति गतिं नरत्वादिकां प्रतीत्य, तत्रेहलोकस्य नरत्व
अत्र शतक-८ उद्देशक : ७ समाप्त:, अत्र शतक-८ उद्देशक : ८ आरभ्यते
~279~
GOLDC
ORIHIROCHAAROGRAMEC
८ शतके ७ उद्देशः
॥१३३॥