SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३०९ ३१४] गाथा: दीप अनुक्रम [३८९१ ३८७] भाग-1 “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) भाग - १ शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [१] मूलं [ ३०९-३१४] + गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभगः लघुवृत्तौ MAND 00106 योगादिषु प्रत्येकमेकत्वे पढ़ें विकल्पाः, द्विकसंयोगे तु १५ प्रत्येकं, एवं सर्वेष्वपि एकविंशतिः, औदारिकादिशरीरकायप्रयोगादिषु सप्तसु पदेषु एकत्वे सप्त द्विकसंयोगे तु एकविंशतिः, एवं सर्वे जाता अष्टाविंशतिः, एवमेकेन्द्रियादि पृथ्वीप्रभृतिपञ्चपदैः पूर्वोक्तकमेण औदारिकादिकायप्रयोगपरिणतद्रव्यद्वयं प्रपञ्चनीयं, कियद्दरं ?, यावत्सर्वार्थसिद्धाः, एतचैवं 'जइ सम्बसिद्धअणुत्तरोववाइय कप्पाईयवेमाणियदेवपंचिंदियकम्मासरीरकायप्पओगपरिणया किं पत्तसच्चसिद्ध जाव परिणया अपजत्तसब्बड जाव परिणयाः, गोयमा ! पञ्जत्तसब्बठ्ठजावपरिणया वा, अहवेगे पजत्तसव्वजाब परिणए अहवेगे अपजत्तसव्बट्ट जाव परिणए' त्ति, 'एवं बीससापरिणयावि'त्ति प्रयोगपरिणतद्रव्यद्वयवत् प्रत्येक विकल्पैर्द्धिकसंयोगैश्व विश्रसापरिणतेऽपि द्रव्ये वर्णगन्धरसस्पर्शसंस्थानेषु पञ्चादिभेदेषु वाच्यं, कियद्दूरं यावदित्याह - 'अहवेगे' इत्यादि, अयं च पञ्चभेदसंस्थानस्य दशानां द्विकसंयोगानां दशम इति ।। अथ द्रव्यत्रयं चिन्तयन्नाह - 'तिरिण भंते! दव्य'त्ति इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः, द्विकयोगे तु पद्, कथं १, आद्यस्यैकत्वे शेषयोः क्रमेण द्विवे द्वौ तथाssयस्य द्वित्वे शेषयोः क्रमादेकत्वेऽन्यौ द्वौ तथा द्वितीयस्यैकत्वे तृतीयस्य च द्विश्वेऽन्यः, तथा द्वितीयस्य द्विश्वे तृतीयस्यैकत्वे अन्य इत्येवं पद्, त्रिकयोगे एक एव, जातास्सर्वे दश, एवं मनःप्रयोगादिपदत्रयेऽपि, अत एवाह'एकसंजोगो' इत्यादि, सत्यमनः प्रयोगादिषु चैकत्वे चत्वारः, द्विकयोगे तु द्वादश, कथं ?, आद्यस्यैकत्वेन शेषाणां त्रयाणां क्रमादनेकत्वेन श्रयो लब्धाः पुनरन्ये त्रय आद्यस्य बहुत्वेन शेषाणामेकत्वेन, तथा द्वितीयस्यैकत्वेन शेषयोः क्रमादनेकत्वेन द्वौ, पुनद्वितीयस्य बहुत्वेन शेषयोरेकत्वेन द्वावेव तृतीयचतुर्थयोरेकत्वबहुत्वाभ्यामेकः पुनस्तद्विपर्ययेणैकः, एवं द्वादश, त्रिकयोगे चत्वारः सर्वेऽपि २० 'एवं दुयासंजोग' इत्यादि 'एत्थवि तहेव'त्ति अत्रापि द्रव्यत्रयाधिकारे तथैव वाच्यं सूत्रं यथा द्रव्यद्वयाधिकारे ~244~ ८ शतके १ उद्देशः
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy