________________
आगम
(०५)
प्रत
सूत्रांक
[२५९
३०८]
गाथा:
दीप
अनुक्रम
[३२७
_३८०]
भाग-1 “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०] मूलं [२५९-३०८] + गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभग० लघुवृत्तौ
INBB
हेतुत्वात् नो अजीवानां कामाः, कामासम्भवादिति । 'वि' मित्यादि, भुज्यन्ते - उपभुज्यन्ते वपुषा इति भोगा- गन्धरसस्पर्शत्रयरूपाः रूपिणो भोगाः, नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति, सच्चित्ता अपि भोगा गन्धादिप्रधानजीवशरीराणां केषाश्चित् समनस्कत्वात्, अचित्ता अपि ते, गन्धादिप्रधान जीवशरीराणां केपांचिदमनस्कत्वात्, 'जीवावि भोगि' त्ति जीवशरीराणां गन्धयुक्तत्वाजीवा भोगाः, 'अजीवावि भोगि' त्ति अजीवद्रव्याणां गन्धादिगुणोपेतत्वादिति । 'सव्वत्थोवा काम भोगि 'त्ति ते हि चतुरिन्द्रियाः पञ्चेन्द्रियाश्च स्युः, ते च स्तोका एव, नोकामिनो नोभोगिनस्ते च सिद्धा एव, ते च तेभ्यः प्रागुक्तेभ्योऽनन्तगुणाः, 'भोगि'त्ति एकद्वित्रीन्द्रियास्तेभ्योऽनन्तगुणाः, वनस्पतीनामनन्तगुणत्वादिति ॥ 'से नूनं ति ( २९० ) स नरो नूनं निश्चितं भदन्त ! 'खीण' त्ति भोगास्तन्ति यस्य तद्भोगि- वपुस्तत्क्षीणं यस्य तपोरोगादिभिः स क्षीणभोगी - क्षीणतनुः, दुर्बल इत्यर्थः, 'उडाणेणं' उत्थानेन-ऊर्ध्वभवनेन 'कम्मेणं'ति गमनादिना 'बलेणं'ति देहप्राणेन 'बीरिएणं'ति जीवबलेन 'पुरिसकारति पुरुषाभिमानेन साधितख प्रयोजनेनेत्यर्थः, 'भोग भोगाई' ति मनोज्ञशब्दादीन् 'से नूणं'ति अथ भदन्त एवं - अनन्तरोक्तमर्थं वदथ यूयमिति प्रश्नः पृच्छतोऽयमभिप्रायो - यद्यसौ न प्रभुस्तदाऽसौ भोगभोजनासमर्थत्वात् न भोगी, अत एव न भोगत्यागी, अतः कथं निर्जरावान् ?, कथं वा स्वर्गमनपर्यवसानोऽस्तु ?, उत्तरं तु 'नो इण'त्ति, कस्माद् ?, यतः 'पभू णं से'त्ति स क्षीणभोगी प्रभुः समर्थः । 'आहोहिए णं'ति अधोऽवधिको नियतक्षेत्र विषयावधिज्ञानी 'परमाहोहि' त्ति परमावधिज्ञानी ॥ 'एगइया' (स. २९१) एके केचन, न सर्वे सम्मूर्च्छिमा इत्यर्थः, 'अंध'त्ति अन्धा - अज्ञानाः मूढो मूर्खस्तभ्यश्रद्धानं प्रति एत एवोपमयोच्यन्ते- 'तमं'ति तमः प्रविष्टा इव तमः प्रविष्टाः 'तमपडल'त्ति तमः पटलमित्र तमःपटलं- ज्ञानावरणं मोहो-मोह
~ 230~
७ शतके
७ उद्देशः