________________
आगम
(०५)
भाग-1 "भगवती - अगसूत्र-५ (मूलं+वृत्तिः ) भाग-१
शतक [६], वर्ग H. अंतर्-शतक , उद्देशक 1, मूलं [२४९-२५०] + गाथा पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
प्रत
सूत्रांक
श्रीभग
10
शतके
लघुवृत्ती
८ उद्देशः
[२४९२५०
गाथा:
प्रागुक्तकृष्णराजीसत्रे, इह च ब्रह्मलोकोपरिस्थानानामधो योऽब्वनस्पतिनिषेधः स यान्यत्र वायुप्रतिष्ठितानि स्थानानि तेषामध आनन्तर्येण वायोरेव भावात् आकाशप्रतिष्ठितानां त्वाकाशस्यैव भावादवगन्तव्यः, अनेरवस्थानादिति, 'जाइनामनिहत्ताउएत्ति (सू. २४९) तत्र जातिः-एकेन्द्रियजात्यादिः सैव पञ्चधा, नाम इति नामकर्मण उत्तरप्रकृतिः तया निधत्त-निषिक्तं यदायुस्तजातिनामनिधत्तायुः, निपेकश्च कर्मपुद्गलानां प्रतिसमयमनुभवनाथं रचनेति १ 'गतिनाम'त्ति गतिः-नारकादि चतुर्दा, शेषं तथैव | २,'ठिइनाम'त्ति स्थितिरिति यत्स्थातव्यं क्वचिद्विवक्षितभवे जीवेनायुःकर्मणो वा सैव नामः-परिणामो धर्मः स्थितिनाम तेन | निधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्तायुः ३, ओगाहनामनिधत्त०४ अवगाहते यस्यां जीवः सा अवगाहना-शरीरमौदा-| सारिकादि तस्य नाम-औदारिकादिशरीरनामकमेंत्यवगाहनानाम शेषं प्राग्वत् , 'पएसनाम'त्ति प्रदेशानां-आयुःकर्मद्रव्याणां ||
नामः-परिणतिः, प्रदेशनामः शेषं प्राग्वत् ५ 'अणुभागनाम'त्ति अनुभागः आयुर्द्रव्याणामेव विपाकस्तल्लक्षणो नामः-परिपाणतिः, शेषं तथैव ६, अथ किमर्थ जात्यादिनामकर्मणाऽऽयुर्विशेष्यते ?, उच्यते, आयुष्कस्स प्राधान्योपदर्शनार्थ, यस्माचारकाद्या| युरुदये सति जात्यादिनामकर्मणामुदयः स्यात्, नारकादिभवोपग्राहकं चायुरेव, यसादुक्तं इहैव-निरइए णं भंते ! नेरइएसु उव-| बजइ, अनेरइए नेरइएसु उ०, गोभ नरहए नेरइएसु उव०, नो अनेरइए नेरइएसु उ०' अयमर्थः-नारकायुःप्रथमसमयवेदन | एव नारक उच्यते, तत्सहचारिणां च पश्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह च आयुर्वन्धस्य पविधत्वे उपन्यस्ते यदायुः
पविधमुक्तं तदायुषो बन्धाव्यतिरेकाद् बद्धवैवायुर्व्यपदेशविषयत्वादिति, 'दंडओ'त्ति 'जीवाणं भंते ! कइविहे आउबंधे पण्णत्ते' | इत्यादि वैमानिकान्तश्चतुर्विंशतिदण्डको वाच्यः, अत आह-जाव वेमाणियाणं'ति एवं जीवपदस्यैकत्वबहुत्वाभ्यां आयुर्व
दीप अनुक्रम [३१३३१६]
~208