SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२४० २४३] गाथाः दीप अनुक्रम [२९१ २९९] भाग-1 “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) भाग - १ शतक [६], वर्ग [-] अंतर् शतक [-] उद्देशक [५] मूलं [ २४०-२४३] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभग० लघुवृत्तौ अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं दक्षिणयोश्चतुर्थं अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं पश्चिमयोः षष्ठं अभ्यन्तरपश्चिमोत्तरयोः सप्तमं, उत्तरयोरष्टमम्, 'लोगंतिय'त्ति लोकस्यान्ते समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका वा देवाः तेषां विमानानि इति समासः अत्र च अवकाशान्तरवर्त्तिष्वष्टसु अर्चिःप्रभृतिविमानेषु यत् कृष्णराजीमध्यभागवर्त्ति रिष्ठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयं, 'सारस्सय माइचाणं ति सारखतादित्ययोः समुदितयोः सप्त देवशतानि परिच्छदः इत्यक्षरानुसारेणावगम्यते, एवमुत्तरत्रापि, 'अवसेसाणं' ति अव्यावाधाशेयरिष्ठानां, 'एवं नेयव्वं' ति पूर्वोक्तप्रश्नानुसारेण लोकान्तिकविमानवक्तव्यताजातं नेतव्यं, 'विमाणाण पड्डाणं ति तत्र विमानानां प्रतिष्ठानं दर्शितमेव, विमानानां पृथ्वीबाहल्यं, तच्च पञ्चविंशतियोजनशतानि, उच्चत्वं तु योजनसप्तशतानि संस्थानमेषां नानाविधमनावलिका प्रविष्टत्वात्, आवलिकाप्रविष्टानि हि वृत्तत्र्यत्रचतुरस्रभेदात् त्रिसंस्थानानि स्युः, 'बंभलोए'त्ति ब्रह्मलोके या विमानानां देवानां च जीवाभिगमोक्ता वक्तव्यता सा तेषु ज्ञेया, सा चैवं लेशत:-'लोयंतियविमाणा णं भंते! करवन्ना १, तिवन्ना, लोहिया हालिदा सुकिल्ला, एवं पभाए निघालोया गंघेणं इदुगंधा एवं इट्ठफासा एवं सव्वरयणामया, तेसु देवा समचउरंसा अलमहुगसमवण्णा पम्हलेसा । लोयंतियविमाणेसुणं भंते! सव्वे पाणा ४ पुढवित्ताए देवत्ताए उबवण्णपुब्बा ?, हंतेत्यादि लिखितमेव, केवइयं' ति छान्दसत्वात् कियत्या अबाधया- अन्तरेण लोकान्तः प्रज्ञप्तः ।। षष्टशते पंचम उद्देशकः ॥ 'से णं भंते! तत्थगए त्ति (सू. २४८) नरकावासप्राप्त एव 'आहारेज'ति पुद्गलानादद्यात्, 'परिणामेज'त्ति तेषामेव खलरसविभागं कुर्यात्, 'सरीरं 'ति तैरेव शरीरं निष्पादयेत्, 'अस्थेगइए'ति यस्तस्मिन्नेव समुद्घाते म्रियते, ततः प्रतिनिवर्त्तते, अथ शतक-६ उद्देशक: ५ समाप्तः, अथ शतक-६ उद्देशक : ६ आरब्धः •••अत्र शतक-६, सूत्र- २४४ वर्तते, मूल संपादने यत् २४८ मुद्रितं तत् मुद्रण स्खलना संभाव्यते 202~ ६ शतके ६ उद्देशः
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy