________________
आगम
(०५)
भाग-1 "भगवती'- अगसूत्र-५ (मूलं वृत्ति:) भाग-१
शतक [५], वर्ग, अंतर्-शतक H, उद्देशक [७], मूलं [२१२-२१९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
प्रत
शतके
सूत्रांक
उद्देश:
[२१२२१९]
दीप
अनुक्रम [२५३२६१]
मण्डकादिपचनिका, 'लोहकडच्छुय'त्ति अन्नपरिवेषणाद्यर्थों भाजनविशेषः,'भवणा' भवनपतिनिवासाः।।पंच हेउ'त्ति(स.२१९) इत्यादि, इह हेतुपु वर्तमानो ना-नरो हेतुरेव, तदुपयोगानन्यत्वात् , पञ्चविधत्वं चास्य क्रियाभेदादित्याह-'हेउं जाणइत्तिहेतु| साध्याविनाभूतं साध्यनिश्चयार्थ जानाति-विशेषतः सम्यगवगच्छति, सम्यग्दृष्टित्वाद् , अयं च पञ्चविधोऽपि सम्यग्दृष्टिमन्तव्यः, | मिथ्यादृष्टेः सत्रदयात् परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति, सामान्यत एव, अवबोधच्चादिति द्वितीयः, एवं हेतुं बुध्यते,
सम्यक् श्रद्धत्ते, बोधेः सम्यश्रद्धानपर्यायत्वात् इति तृतीयः, हेतुं अभिसमागच्छति, साध्यसिद्धौ व्यापारणतः सम्यक् प्रामोतीति । |चतुर्थः, 'हेउं छउमत्थे'त्ति हेतुः-अध्यवसानादिर्मरणकारणं तद्योगात् मरणमपि हेतुरतस्तं, हेतुमदित्यर्थः, छमस्थमरणं, न केवलि-H मरणं, तस्य नितुकत्वात् , नाप्यज्ञानमरणं, एतस्य सम्यग्ज्ञानित्वात् , अज्ञानमरणस्य च वक्ष्यमाणत्वात् , म्रियते-करोतीति पञ्चमः ।। प्रकारान्तरेण हेतूनेवाह-हेतुना अनुमानस्थापकेन जानाति-अनुमेयं सम्यगवगच्छति, सम्यग्दृष्टित्वादेका, पश्यति द्वितीयः, बुध्यते |श्रद्धचे इति तृतीयः, एवमभिसमागच्छति-प्रामोतीति चतुर्थः, अकेवलित्वात् हेतुना अध्यवसानादिना छमस्थमरणं नियत इति | पञ्चमः । अथ मिथ्यादृष्टिमाश्रित्य हेतूनाह-'पश्चेत्यादि, पञ्च क्रियाभेदात् , हेतवो हेतुव्यवहारत्वात् , तत्र हेतु-लिङ्गं न जानाति, नत्रः कुत्सार्थत्वादसम्यगवैति, मिथ्यादृष्टित्वात, एवं न पश्यति न बुध्यते नाभिसमागच्छति, हेतुं अध्यबसानादिहेतुयुक्तं अज्ञानमरणं म्रियते-करोति, मिथ्यादृष्टित्वेनासम्यग्ज्ञानित्वात् । अथ प्रकारान्तरेण हेतूनाह-हेतुना-लिङ्गेन न जानाति, असम्यग-18 वगच्छति, एवमन्येऽपि चत्वारः, अथ उक्तविपक्षभूतानहेतूनाह-पंचेत्यादि, प्रत्यक्षज्ञानित्यादिना अहेतुव्यवहारित्वादहेतवः-10 केवलिनः, ते च पञ्च क्रियाभेदात् , तद्यथा-'अहेउं जाणइ'त्ति अहेतुं न हेतुभावेन, सर्वज्ञत्वेनानुमानानपेक्षत्वाद्भूमादिकं जानाति,
~171