________________
आगम
(०५)
प्रत सूत्रांक
[3]
दीप
अनुक्रम
[8]
भाग-1 “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) भाग - १
शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१] मूलं [3] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभग
वती
सूत्रम्
नमोsस्तु श्रुताय - द्वादशाङ्गीरूपायात्प्रवचनाय । वण्णओत्ति (सू० ४ )
इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरव भयादिह तस्यालिखितत्वात् स चैवं रिद्धत्थिमियसमिद्धे, रिद्धं पुरभवनादिभिर्वृद्ध, स्तिमितं — स्थिरं खचक्रादिभयवर्जितत्वात्, समृद्धं - धनधान्यादिविभूतियुक्तत्वात् ततः पदत्रयस्य कर्मधारयः, 'पमुइयजणजाणवए' प्रमुदिता-हृष्टा जना- नगरवास्तव्याः जानपदार्थ - जनपदभवास्तत्रायाताः सन्तो यत्र तत् प्रमुदितजनजानपदमित्यादि| रौपपातिकात् सव्याख्यानोऽत्र दृश्यः, 'तस्स नं'ति षष्ठ्याः पञ्चम्यर्थत्वात् तसाद्राजगृहान्नगरात् 'बहिय'त्ति बहिस्तात् 'उत्तरपुरच्छि मे त्ति उत्तरपौरस्त्य दिग्भाग ईशानकुणिविदिग्भागे गुणशिलकं नाम चैत्यं व्यन्तरायतनं 'होत्थ'त्ति बभूव, इह च यन्न व्याख्यास्यते तत्प्रायः सुगमत्वादित्यवसेयमिति ।।
तेणं कालेणं तेणं समर्पणं समणेत्ति (सू० ५ )
"श्रमु तपसि खेदे चे 'ति वचनात् श्राम्यति - तपस्यतीति श्रमणः, अथवा सह शोभनेन मनसा वर्तत इति समनाः, शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात्, 'भगवं'ति भगवान् ऐश्वर्यादियुक्तः, पूज्य इत्यर्थः, 'महावीरे' त्ति महांश्वासौ दुर्जयान्तररिपुतिरस्करणाद्वीरचेति महावीरः 'आदिकरे' त्ति आदितो धर्मम् - आचारादिश्रुतं करोतीत्यादिकरः 'सहसंबुद्धे' त्ति सह-आत्मनैव संबुद्धो, नान्योपदेशत इत्यर्थः 'धम्मवरचाउरंत'त्ति त्रयः समुद्राचतुर्थश्व हिमवान् एते चत्वारोऽन्ताः - पृथिव्यन्ताः तेषां स्वामी यथा चक्रवर्ती तथा भगवान् चतुर्धर्मचक्रवतीं इति, 'तेण 'मित्यादि शक्रस्तवव्याख्यानं सुगमत्वान्न वित्रियते ।
~16~
१ शतके १ उद्देशः