________________
आगम
(०५)
प्रत
सूत्रांक
[१७२]
दीप
अनुक्रम
[२१०]
भाग-1 “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक[४], वर्ग [-], अंतर- शतक [-] उद्देशक [१-८], मूलं [ १७२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभग० लघुवृत्तौ
द्भवतः, धनदस्य द्वे एव पल्योपमे, 'तिभाग'त्ति वरुणविषये सत्रिभागे द्वे पल्ये, 'पलिय'त्ति यथापत्यदेवानां पल्य मेकमिति, गाथा गतार्था । चतुर्थशतेऽष्टम उद्देशकः ॥
'नेरइए 'ति (स. १७३) लेस्सापदे सप्तदशे प्रज्ञापनायास्तृतीय उद्देशको भणितत्र्यः, स चैवं गोयमा ! नेरइए णेरइएस उबवज्जह, णो अणेरइए णेरइएस उववज्जइ' अयं चास्यार्थः नैरयिको नैरयिकेषूत्पद्यते, न पुनरनैरयिकः, कथमेतद् ?, उच्यते, यस्मान्नारकादिभवोपग्राहकं आयुरेव, अतो जीवः कोऽपि प्राग्भवायुर्भुक्त्वा नरकादिपूत्पत्तुकामः स नारकाद्यायुः प्रथमसमयसंवेदनकाल एवं नारकादिव्यपदेश्यः स्यात् ऋजुसूत्रनयदर्शनेन यत उक्तं नयविद्भिः - 'पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् । न शून्यान्निर्गमोऽस्तीह, न च शून्यं प्रविश्यते || १||" नारकव्यतिरिक्तच नरके नोपपद्यते । नरकाचारकञ्चास्य, न कश्चिद्विप्रमुच्यते ॥ २ ॥" 'जाव नाणाई' ति अयमुदेशको ज्ञानावसानोऽध्येतव्यः, स चायम्- 'कण्हलेसे णं जीवे कइसु नाणेसु होजा १, गो० ! दोसु तिसु चउसु वा नाणेसु होजा, दोसु होजेमाणे आभिणिचो हियसुयनाणेसु होजा' ।। चतुर्थशते नवम उद्देशकः ॥
'तारूवत्ताए 'त्ति (स. १७४ ) तद्रूपतया नीललेश्यास्वभावेन, एवं प्रज्ञापनालेश्यापदे चतुर्थोदेशकः, स चैवम्- 'तावण्णत्ताए ता गंध० तारस० ताफासत्ताए भुज २ परिणमति १, हंता ! गोयमा ! कण्हलेसा नीललेसं पप्प तारूबताए भुञ्ज २ परिणमड़.' अयमस्य | भावार्थः यदा कृष्णलेश्या परिणतो जीवो नीललेश्यायोग्यानि द्रव्याणि गृहीत्वा कालं कुर्यात् तदा नीललेश्यापरिणत उत्पद्यते, 'जल्लेसाई दव्बाई परियाहत्ता कालं करेइ तल्लेसे उबवज्जइ' इति वचनाद्, अतः कारणमेव कायस्थात्, 'से केणणं भंते ! एवं बुच्चई कण्हलेसा नीललेसं पप्प तारूवत्ताए भुज्जो २ परिणमद्द १, गोयमा ! से जहानामए खीरे दूसिं पप्प' तक्रमिति भावः, 'सुद्धे
अथ शतक-४ उद्देशकाः १-८ समाप्ताः, अथ शतक-४ उद्देशक : ९ आरब्धः एवं समाप्तः, अथ शतक-४ उद्देशक : १० आरब्धः
146~
४ शतके
१९ उद्देशः