________________
आगम
(०५)
भाग-1 "भगवती"- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१
शतक [१], वर्ग H, अंतर्-शतक H, उद्देशक [१], मूलं [१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
श्रीभग
वतीसूत्रम्
श्रीभगवतीजोसूत्रस्य श्रीदानशेखरसूरिसंकलिताविशेषवृत्तिः
१ शतके १ उद्देशः
प्रत सूत्रांक [१]
दीप अनुक्रम
| श्रीवीरं नमस्थित्वा तस्यावगमाय सर्वसचानाम् । व्याख्या दुर्गपदानामुद्धियते भगवतीवृत्तेः ॥शा श्रीपत्रिंशतसहस्रप्रथमगणिकृतप्रश्नयुक्त्युत्तरङ्गश्चत्वारिंशच्छतान्तःस्थितततविविधोद्देशहंसाप्तरङ्गः। दंडप्रोदंडनालाद्भुतचरितसरोजन्मलक्ष्मीविवाहप्रज्ञप्तिश्रीतडागः प्रथयतु सुमनोमानसानां विनोदम् ॥ २ ॥ अथ शास्त्रस्यादावेव पञ्चपरमेष्ठिनमस्कारं कुर्वन्नाह
_ नमो अरिहंताणमित्यादि (मू०१) सुगम | एवं तावत् परमेष्ठिनो नमस्कृत्य आधुनिकजनानां श्रुतज्ञानस्यात्युपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वाद् भावश्रुतस्य च द्रव्यश्रुत| हेतुकत्वात् संज्ञाक्षररूपं द्रव्यश्रुतं नमस्कुर्वन्नाह-मास्वच्छ्रीभगवत्यङ्गबृहद्वृत्तिसमुद्धतौ । श्रीब्राह्मीसंस्मृतिं कुर्यामहार्यानन्दवानहम् ।।३।।
नमो बंभीए लिवीएत्ति (सू०२) लिपि:-अक्षरविन्यासः, सा चाष्टादशविधापि श्रीआदिजिनेन खसुताया ब्राह्मीनाम्न्या दर्शिता ततो ब्राह्मीत्यभिधीयते, आह चHI"लेहं लिचीविहाणं जिणेण बंभीऐ दाहिणकरणे"त्यतो ब्राह्मी विशेषणं लिपेरिति, शिष्यमतिमङ्गलार्थ मङ्गलोपादानमिति प्रोक्तमेव, तदे
अत्र भगवती-सूत्रे प्रथम शतकं आरभ्यते
शतक-१, उद्देशक : १ आरब्धः
~14~