SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [0] दीप अनुक्रम [११२] भाग-1 “भगवती”- अंगसूत्र -५ (मूलं + वृत्तिः) भाग - १ शतक[२], वर्ग [-] अंतर् शतक [-] उद्देशक [१] मूलं [१०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभगलघुवृत्तौ DICHIGAKSİCCUCCICDC) चिन्तित ः- स्मरणरूपः प्रार्थितः - अभिलपितः सङ्कल्पो-विकल्पः समुत्पन्नवान् अर्थान् भावान्, भावान् लोकसान्तत्वादीन्, 'हेज'ति अन्वयव्यतिरेकलक्षणहेतुगम्यत्वाद्धेतून, तानेव 'पसिणाई' प्रश्नान्, उपपत्तिमात्राणि कारणानि, व्याक्रियमाणत्वाद् व्या. करणानि प्रष्टुं इतिकृत्वा 'सम्पेहेड' त्ति संप्रेक्षते पर्यालोचयति, 'परिव्वायावसहे' त्ति मठः कुण्डिका- कमण्डलु काञ्चनिका रु द्राक्षकता करोटिका मृद्भाजन विशेषः, भूमिका आसनविशेषः, केसरिका-प्रमार्जनार्थं चीवरखण्डं, पदनालकं-त्रिकाष्टिका अङ्कुशकं तरुपल्लवग्रहणार्थं पवित्रकं - अङ्गुलीयकं, गणेत्रिका कलाचिकाभरणविशेषः, 'पहारेत 'त्ति प्रधारितवान् संकल्पितवान् गमनाय - गन्तुं, 'गोयमाई' ति गौतम इति आमन्त्र्येति शेषः, 'काहे व 'स्ति कदा कस्यां वेलायां 'किह वत्ति केन वा प्रकारेण ? साक्षाद् दर्शनतः श्रवणतो वा 'केवधिरेण व'त्ति कियतो वा कालात् 'अदूरागए'त्ति अदूरे आगतः, स चावधिस्थानापेक्षयापि स्वाद् अथवा दूरतरमार्गापेक्षया क्रोशादिकमप्यदूरं स्यादत उच्यते- 'बहुसंपत्ते 'ति ईषदूनः सम्प्राप्तो बहुसम्प्राप्तः, 'अद्वाणपबन्ने' ति मार्गप्रतिपन्नः किमुक्तं स्यात् 'अन्तरापहे वह 'त्ति विवक्षितस्थानयोरन्तरालमार्गे वर्त्तत इति, 'पद्यइत्तए' त्ति प्रव्रजितुं, 'अभुट्ठे 'त्ति आसनं त्यजति यच्च गौतमाभ्युत्थानमसंयतं प्रति तद्भाविसंयतत्वेन, 'हे स्वंदय'त्ति सम्बोधनमात्रं स्वागतं शोभनमागमनं तब स्कन्दक! सु-अतिशयेन स्वागतं 'अणुरागयं'ति रेफस्यागमिकत्वात् अनुरूपं आगमनं 'जेणेव इहं'ति यस्यां दिशि इदं भगवत्समवसरणं 'तेणेव' तस्यां दिशि 'अत्थे समस्थे'ति अयमर्थः समर्थः सङ्गतः १, किंति प्रश्ने, उत्तरं तु 'हन्ता अस्थि' सद्भूतोऽयमर्थः, 'से केणं' ति गोयमा ! तहारूवेति स कः, णंति वाक्यालङ्कारे, तथारूपो ज्ञानी तपस्वी वा 'जेणं'ति येन ज्ञानिना तब एषः अर्थ आख्यातः, 'रहस्सकडे' त्ति रहः कृतः प्रच्छन्नकृतः, हृदय एव अवधारितत्वात् 101~ २ शतके १ उद्देशः ॥ ४४ ॥
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy