________________
आगम
(३०- वृ)
प्रत
सूत्रांक
||४२||
दीप
अनुक्रम
[४२]
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं ||४२ || ----
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [ ३० वृ], प्रकीर्णकसूत्र -[७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
श्रीगच्छा-विवर्जितः तत्र मायालोभात्मको रागः क्रोधमानात्मको द्वेष इति ॥ ४१ ॥ निष्ठापितानि-क्षयं नीतानि अष्टौ मदस्थानानि - जाति १ कुल २ रूप ३ बल ४ लाभ ५ श्रुत ६ तपो ७ विभव ८ लक्षणानि येनासौ निष्ठापिताष्टमदस्थानः, शोषिताः- दुर्बलीकृताः कपायाः - सभेदाः क्रोधमानमायालोभा येनासौ शोषितकषायः, जितानि - आत्मवशीकृतानि इन्द्रियाणि श्रोत्र १ हगू २ नासा ३ जिह्वा ४ स्पर्शन ५ मनो ६ लक्षणानि येनासौ जितेन्द्रियः 'विहरेत्' विहारं कुर्यादित्यर्थः तेन छद्मस्थेनापि सार्द्ध 'केवली' केवलज्ञानी ॥ ४२ ॥ अथोक्तविपरीतैः सार्द्धं बिहारो न विधेय इत्याह
जे अणहीयपरमत्था, गोअमा ! संजया भवे । तम्हा ते विवज्जिज्जा, दुग्गईपंथदायगे ॥ ४३ ॥
जे अ० ॥ 'ये' मुनयः अनधीता-अनभ्यस्ताः परमार्थाः- ये आश्रवाः - कर्मबन्धस्थानानि से परिश्रवाः - कर्मनिर्जरास्थानानि १, ये एव परिश्रवा - निर्जरास्थानानि तान्येवाश्रवाः - कर्मबन्धस्थानानि २, येऽनाश्रवास्तेऽप्यपरिश्रवाः- कर्मबन्धस्थानानि कौङ्कणसाध्वादिवत् ३, अपरिश्रवाः - कर्मबन्धस्थानानि तेनाश्रवा-न कर्मबन्धस्थानानि कणवीरलता भ्रामक - क्षुल्लकस्येव ४, इत्याद्यागमपरिज्ञानरूपा यैस्तेऽनधीतपरमार्थाः हे गौतम! संयता भवन्ति तस्मात्तानपि 'विवर्जयेत्' दूरतस्त्यजेत, किंभूतान् ? -- दुर्गतिपथदायकान् तिर्यगूनरककुमानुष कुदेव मार्गप्रापकानित्यर्थः ॥ ४३ ॥ अथ गीतार्थो - पदेश: सर्वोऽपि सुखावहो भवतीत्याह
गीत्थस्स वयणेणं, विसं हालाहलं पिवे । निविकप्पो य भक्खिज्जा, तक्खणे जं समुदवे ॥ ४४ ॥ परमत्थओ विसं नो तं, अमयरसायणं खु तं । निविग्धं जं न तं मारे, मओऽवि अमयस्समो ॥ ४५ ॥
चारलघुवृत्ती
॥ १३ ॥
गीतार्थ - अगीतार्थस्य महिमा अमहिमा दर्शयते
~329~
वर्ज्याः साधवः गीतार्थ महिमा गा. ४३-५
२०
२५
॥ १३ ॥
२८