________________
आगम
(३०- वृ)
प्रत
सूत्रांक
||२३
-२४||
दीप
अनुक्रम [२३-२४]
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं ||२३-२४||
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [ ३० वृ], प्रकीर्णकसूत्र -[७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
श्रीगच्छा
॥ ९ ॥
प्रतिलेखनापूर्वकं धारयतोऽजीवसंयमः १०, प्रेक्ष्य चक्षुषा शयनासनादीनि कुर्वीतेति प्रेक्षासंयमः ११, पार्श्वस्थादीनामु चारलघु- ७ पेक्षणमुपेक्षासंयमः १२, सचित्ताचित्तमिश्ररजोऽवगुण्डितपादादीनां प्रमार्जनं प्रमार्जनासंयमः १३, अनुपकारकं वस्तु वृत्ती विधिना परिष्ठापयतः परिष्ठापना संयमः १४, द्रोहेर्थ्यादिभ्यो निवृत्तिर्धर्मध्यानादिषु प्रवृत्तिर्मनः संयमः १५, एवं वाक्काययोरपि १६ १७, तस्य योगः प्रतिलेखनादिव्यापारस्तेन निस्सारश्चर्वितताम्बूलवदिति यद्वा 'संजम०' निर्गतं सारं स्वर्गा पवर्गफलं यस्य स निस्सारः, केन ?- संयमश्च योगश्च योगोद्वहनं संयमयोगं तेन, बाध्यसंयमयोगोद्वहनहेतुत्वादिति ॥ २३ ॥ कु० ॥ कुलं गृहं ग्रामं सकरं नकरं गो १ महिषी २ उष्ट्र ३ च्छाग ४ च्छगली ५ तृण ६ पलाल ७ बूरक ८ काष्ठा ९झार १० क्षेत्र ११ गृह १२ दूरदेशव्यवसायि १३ बलीवर्द १४ घृत १५ चर्म १६ भोजन १७ सेइमाणाक १८ रूपाष्टादशकररहितं राज्यं सप्ताङ्गमयं, अथवा राज्यमिति सर्वत्र योज्यं, यथा कुलराज्यं ग्रामराज्यं नगरराज्यं, यद्वा कुलग्रामनगराणि यत्रैवंविधं राज्यं 'पयहिय'त्ति त्यक्त्वा पुनरिति शेषः 'यः' साध्वाभासः 'तेषु' कुलादिषु 'करोति' विधत्ते 'हु:' निश्चितं 'ममत्वं' ममैतदिति मन्यते 'सः' पूर्वोक्तः केवलं 'लिङ्गधारी' बेरमात्रधारी संयमः पञ्चाश्रवविरमण ५ पञ्चेन्द्रियनिग्रह १० कषायचतुष्टयजय १४ दण्डन्त्रयविरति १७ लक्षणस्तस्य योगो-व्यापारस्तेन निस्सारो - गतसार इति ॥ २४ ॥ पुनर्गाथात्रयेणोत्तमाचार्यस्वरूपमाह
विहिणा जो उ चोर, सुतं अत्थं च गाहई । सो घण्णो सो अ पुण्णो य, स बंधू मुक्खदायगो ॥ २५ ॥ स एव भवसत्ताणं, चक्खुभूए वियाहिए। दंसेइ जो जिणुहिं, अणुहाणं जहट्टियं ॥ २६ ॥
~ 321~
उत्तमाचार्य स्वरूपं
गा. २५-७
२०
२५
॥ ९ ॥
२८