________________
आगम
(३०- वृ)
प्रत
सूत्रांक
||१०
-११॥
दीप
अनुक्रम [१०-११]
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं || १०-११ ||
मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [३० वृ], प्रकीर्णकसूत्र [७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्तिः
च्छेदिनि ५ अथ स्वगच्छे पञ्चानामप्यभावे परगच्छे सांभोगिके आचार्यादिक्रमेणालोचयितव्यं, सांभोगिके गच्छे पञ्चानामप्यभावे संविग्नेऽसांभोगिके पञ्चाचार्यादिक्रमेणालोचयितव्यं, संविग्नासाम्भोगिकानामध्यभाव गीतार्थ पार्श्वस्थसमीपे तदभावे सारूपिके संयतवेषगृहस्थे तदभावे गीतार्थपश्चात्कृते त्यक्तचारित्रवेषगृहस्थे तदभावे सम्यक्त्वभा वितदेवतायां, यतो देवता महाविदेहादी जिनानापृच्छय कथयत्यतः, तदभावे जिनप्रतिमापुरतः, तदभावे पूर्वाद्यभिमुखोऽर्हतः सिद्धानभि समीक्ष्य जानन् प्रायश्चित्तविधिं स्वयमेव प्रायश्चित्तं प्रतिपद्यते, एवं प्रतिपद्यमानः शुद्ध एवेति, तथा नित्यं सदा सर्वत्र विरुद्धा कथा विकथा, तत्र स्त्रीकथा १ भक्तकथा २ देशकथा ३ राजकथा ४ मृदुकारुणिकाकथा ५ दर्शनभेदिनीकथा ६ चारित्रभेदिनीकथा ७ रूपा सप्तधा, आद्याश्चतस्रः कण्ठ्याः, श्रोतृहृदयमार्दवजननान्मृद्वी सा चासौ पुत्रादिप्रलापप्रधानत्वात्कारुण्यवती मृदुकारुणिका, यथा-"हा पुत्त ! २ हा बच्छ । २ मुक्काऽसि कहमणाहाऽहं । एवं कलुणपलावा जलंतजलणेऽज्ज सा पडिया ॥ १ ॥” दर्शनभेदिनी ज्ञानाद्यतिशयतः कुतीर्थिकनिहवप्रशंसारूपा ६ यस्यां कथायां कथ्यमानायां कृत्वारित्रमनसः प्रतिपन्नत्रतस्य वा चारित्रं प्रति भेदो भवति ७ अथवा विविधरूपा परपरिवादादिलक्षणा कथा विकथा तस्यां 'परायणं'ति भृशं तत्परमित्यर्थः, भुवनभानु केवलिपूर्वभव| रोहिणीश्राविकावत् । यद्वा कथा चतुर्धा यथा-आक्षिप्यते - मोहात्तत्त्वं प्रत्याकृष्यते श्रोता यया साऽऽशेपणी १, विक्षिप्यतेकुमार्गविमुखो विधीयते श्रोता यया सा विक्षेपणी २ संवेद्यते -मोक्ष सुखाभिलाषी विधीयते यया सा संवेदनी ३, निर्वेद्यते| संसार निर्विण्णो विधीयते यया सा निर्वेदिनी ४, तद्विपरीता विकथा तस्यां तत्परस्तं, हे सौम्य ! एवंविधं सूरिमुन्मार्गगा
~310~
उन्मार्गगामिसूरिचिहं गा. १०-११
५
१०
१४