________________
आगम (३०-७)
“गच्छाचार" - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ---------------------------------- मूलं ||१०-११||--------------- मुनि दीपरत्नसागरेण संकलित.......आगमसूत्र-[३०-वृ], प्रकीर्णकसूत्र-[७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्ति:
श्रीगच्छा
चारलघु
प्रत
वृत्ता
सूत्रांक
॥१०-११||
ACASSSSSSSSSSSS
देति १, पदविभागसामाचारी जीतकल्पकनिशीथादिच्छेदग्रन्थोक्ता, साऽपि नवमपूर्वादेव २, चक्रवालसामाचारी तु अभ्यर्थ- उन्मार्गगानैव तावत्साधूनां न कल्पते, कारणे तु यद्यभ्यर्थयेत् परं तत्रेच्छाकारः कार्यः, यद्वा तस्य कुर्वतः किश्चित् कश्चिन्निर्जराथी मसूराच ब्रूते, यथा-तव कार्यमहं विधास्ये, तत्रापीच्छाकारो न बलात्कारः, दुविनीते बलात्कारोऽपि १, कल्पाकल्पे ज्ञाननिष्ठां
हंगा.
*१०-११ प्राप्तस्य संयमतपोभ्यामान्यस्य गुरोनिर्विकल्पं वाचनादौ ययं वदत तत्तथेति वाच्यं २, संयमयोगेऽन्यथाऽऽचरिते सति || मिथ्याकारः ३, ज्ञानाद्यर्थमवश्यं गमने आवश्यिकी कार्या ४, वसतिचैत्यादी प्रविशन्नैपेधिकी कुर्यात् ५, कार्योत्पत्ती है |गुरोरापृच्छनं ५, गुरुणा पूर्वनिषिद्धेनावश्यकार्यत्वात्प्रतिपृच्छा, पूर्वनिरूपितेन वा करणकाले पुनः प्रतिपृच्छा ७, पूर्वगृही
तेनाशनादिना छन्दनम्-आह्वानं साधूनां कार्यम् ८, अटनार्थं गच्छता निमन्त्रणं ९, ज्ञानाद्यर्थमन्यगुरोराश्रयणमुपसंपत् || |१०-३ । अन्या वा निशीथोक्ता दशधा सामाचारी, यथा प्रातःप्रभृति क्रमशः प्रतिलेखना उपधेः १, ततः प्रमार्जना , वसतेः २, भिक्षा कार्या ३, आगतैरीर्या प्रतिक्रम्या ४, आलोचनं कार्य गृहानीतानां ५, असुरसुरंतिभोक्तव्यं ६, कल्पत्रयेण पात्रकाणां धावनं कार्य ७, विचारः सजोत्सर्गार्थ बहिर्यानं ८, स्थण्डिलानि 'बारस २ तिन्नि यत्ति २७ कार्याणि ९ प्रतिक्रमणं कार्य १० इत्यादि, विशेषतस्तु पञ्चवस्तुकद्वितीयद्वारे ज्ञेया, तस्या विराधको-भजकस्तं सामाचारीविराधकं, नित्यं यावज्जीवमित्यर्थः, दत्ता-अर्पिता आलोचना-स्वपापप्रकाशनरूपा येन स दत्तालोचनो न दत्तालोचनः अदत्तालोचनस्तमदत्तालोचनं स्वपापाप्रकाशकमित्यर्थः, महानिशीथोक्तरूपीसाध्वीवत्, आलोचनाग्रहणं किश्चिद् यथा-प्रथम |स्वकीयाचार्यपार्षे आलोचयितव्यं १ तदभावे स्वोपाध्याये २ तदभावे स्वप्रवर्तके ३ तदभावे स्वस्थविरे ४ तदभावे गणाव
दीप अनुक्रम [१०-११]
~309~