________________
आगम
(३०- वृ)
प्रत
सूत्रांक
||||
दीप अनुक्रम
[3]
गच्छा. १
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं ||१||
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [ ३० वृ], प्रकीर्णकसूत्र -[७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
॥ अहं ॥
गच्छायारपइण्णयं ।
श्री पार्श्व जनमानम्य, तीर्थाधीशं वरप्रदम् । गच्छाचारे गुरोर्ज्ञातां, वक्ष्ये व्याख्यां यथाऽऽगमम् ॥ १ ॥ शास्त्रादी प्रयोजनाभिधेयसम्बन्धमङ्गलान्यभिधातव्यानि, तत्र प्रयोजनमनन्तरपरम्परभेदाद् द्विधा, पुनरेकैकं कर्तृश्रोतृभेदाद् द्विधा, तत्र गच्छाचार प्रकीर्णककर्त्तुरनन्तरप्रयोजनं शिष्यावबोधः, परम्परं स्वपवर्गप्राप्तिः, श्रोतुरप्यनन्तरं तदर्थावगमः, परम्परं तु मुक्तिपदप्राप्तिः १, अभिधेयं तु गच्छाचारः, तस्यैव भणिष्यमाणत्वात् २, सम्बन्धश्चोपायोपेयभावलक्षणः, तत्र वचनरूपापन्नमिदमेव गच्छाचारप्रकीर्णकमुपायः, उपेयं तु तदर्थपरिज्ञानम् ३, मङ्गलं द्विधा द्रव्यभावभेदात्, तत्र द्रव्यमङ्गलं पूर्णकलशादि, तद् अनैकान्तिकत्वात् मुक्त्वा भावमङ्गलं तु शास्त्रकर्त्तुरनन्तरोपकारित्वादभीष्टदैवतस्य वर्द्धमानस्वामिनो नमस्कारद्वारेणाह
नमिऊण महावीरं तियसिंदनमंसियं महाभागं । गच्छायारं किंची उद्धरिमो सुयसमुद्दाओं ॥ १ ॥ 'त्या' प्रणम्य, कं ? - महांश्चासौ वीरश्च महावीरस्तं महावीरं किंविशिष्टम् - त्रिदशाः - सुमनसस्तेषामिन्द्रैः
भगवन् महावीर वंदना एवं 'गच्छाचार उद्धरण-कथनं
~304~
मङ्गलामिधेयादि गा. १
१०